Stotram - Sacred Scripture

Siddhi Vinayaka Stotram

Siddhi Vinayaka Stotram

Stotram
Unknown
8 Verses
110%

सिद्धि विनायक स्तोत्रम्

श्लोक 1

विघ्नेश विघ्नचयखण्डननामधेय

श्रीशङ्करात्मज सुराधिपवन्द्यपाद ।

दुर्गामहाव्रतफलाखिलमङ्गलात्मन्

विघ्नं ममापहर सिद्धिविनायक त्वम्

श्लोक 2

सत्पद्मरागमणिवर्णशरीरकान्तिः

श्रीसिद्धिबुद्धिपरिचर्चितकुङ्कुमश्रीः ।

वक्षःस्थले वलयितातिमनोज्ञशुण्डो

विघ्नं ममापहर सिद्धिविनायक त्वम्

॥ 1 ॥

श्लोक 3

पाशाङ्कुशाब्जपरशूंश्च दधच्चतुर्भि-

-र्दोर्भिश्च शोणकुसुमस्रगुमाङ्गजातः ।

सिन्दूरशोभितललाटविधुप्रकाशो

विघ्नं ममापहर सिद्धिविनायक त्वम्

॥ 2 ॥

श्लोक 4

कार्येषु विघ्नचयभीतविरिञ्चमुख्यैः

सम्पूजितः सुरवरैरपि मोदकाद्यैः ।

सर्वेषु च प्रथममेव सुरेषु पूज्यो

विघ्नं ममापहर सिद्धिविनायक त्वम्

॥ 3 ॥

श्लोक 5

शीघ्राञ्चनस्खलनतुङ्गरवोर्ध्वकण्ठ-

-स्थूलेन्दुरुद्रगणहासितदेवसङ्घः ।

शूर्पश्रुतिश्च पृथुवर्तुलतुङ्गतुन्दो

विघ्नं ममापहर सिद्धिविनायक त्वम्

॥ 4 ॥

श्लोक 6

यज्ञोपवीतपदलम्भितनागराज

मासादिपुण्यददृशीकृतृक्षराजः ।

भक्ताभयप्रद दयालय विघ्नराज

विघ्नं ममापहर सिद्धिविनायक त्वम्

॥ 5 ॥

श्लोक 7

सद्रत्नसारततिराजितसत्किरीटः

कौसुम्भचारुवसनद्वय ऊर्जितश्रीः ।

सर्वत्रमङ्गलकरस्मरणप्रतापो

विघ्नं ममापहर सिद्धिविनायक त्वम्

॥ 6 ॥

श्लोक 8

देवान्तकाद्यसुरभीतसुरार्तिहर्ता

विज्ञानबोधनवरेण तमोऽपहर्ता ।

आनन्दितत्रिभुवनेश कुमारबन्धो

विघ्नं ममापहर सिद्धिविनायक त्वम्

॥ 7 ॥

श्लोक 9

इति श्रीमुद्गलपुराणे श्रीसिद्धिविनायक स्तोत्रं सम्पूर्णम् ।

सिद्धि विनायक स्तोत्रम् | (Siddhi Vinayaka Stotram) Lyrics | Vedic Tithi