Stotram - Sacred Scripture

SrI Srisaila Mallikarjuna Suprabhatam

SrI Srisaila Mallikarjuna Suprabhatam

Stotram
Unknown
15 Verses
110%

श्री श्रीशैल मल्लिकार्जुन सुप्रभातम्

श्लोक 1

प्रातस्स्मरामि गणनाथमनाथबन्धुं

सिन्दूरपूरपरिशोभितगण्डयुग्मम् ।

उद्दण्डविघ्नपरिखण्डनचण्डदण्ड-

माखण्डलादिसुरनायकवृन्दवन्द्यम्

श्लोक 2

कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः

फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे ।

शिवाभ्यामास्तीकत्रिभुवनशिवाभ्यां हृदि पुन-

र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम्

॥ 1॥

श्लोक 3

नमस्ते नमस्ते महादेव! शम्भो!

नमस्ते नमस्ते दयापूर्णसिन्धो!

नमस्ते नमस्ते प्रपन्नात्मबन्धो!

नमस्ते नमस्ते नमस्ते महेश

॥ 2॥

श्लोक 4

शश्वच्छ्रीगिरिमूर्धनि त्रिजगतां रक्षाकृतौ लक्षितां

साक्षादक्षतसत्कटाक्षसरणिश्रीमत्सुधावर्षिणीम् ।

सोमार्धाङ्कितमस्तकां प्रणमतां निस्सीमसम्पत्प्रदां

सुश्लोकां भ्रमराम्बिकां स्मितमुखीं शम्भोस्सखीं त्वां स्तुमः

॥ 3॥

श्लोक 5

मातः! प्रसीद, सदया भव, भव्यशीले !

लीलालवाकुलितदैत्यकुलापहारे !

श्रीचक्रराजनिलये ! श्रुतिगीतकीर्ते !

श्रीशैलनाथदयिते ! तव सुप्रभातम्

॥ 4॥

श्लोक 6

शम्भो ! सुरेन्द्रनुत ! शङ्कर ! शूलपाणे !

चन्द्रावतंस ! शिव ! शर्व ! पिनाकपाणे !

गङ्गाधर ! क्रतुपते ! गरुडध्वजाप्त !

श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम्

॥ 5॥

श्लोक 7

विश्वेश ! विश्वजनसेवित ! विश्वमूर्ते !

विश्वम्भर ! त्रिपुरभेदन ! विश्वयोने !

फालाक्ष ! भव्यगुण ! भोगिविभूषणेश !

श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम्

॥ 6॥

श्लोक 8

कल्याणरूप ! करुणाकर ! कालकण्ठ !

कल्पद्रुमप्रसवपूजित ! कामदायिन् !

दुर्नीतिदैत्यदलनोद्यत ! देव देव !

श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम्

॥ 7॥

श्लोक 9

गौरीमनोहर ! गणेश्वरसेविताङ्घ्रे !

गन्धर्वयक्षसुरकिन्नरगीतकीर्ते !

गण्डावलम्बिफणिकुण्डलमण्डितास्य !

श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम्

॥ 8॥

श्लोक 10

नागेन्द्रभूषण ! निरीहित ! निर्विकार !

निर्माय ! निश्चल ! निरर्गल ! नागभेदिन् ।

नारायणीप्रिय ! नतेष्टद ! निर्मलात्मन् !

श्रीपर्वताधिप ! विभो ! तव सुप्रभातम्

॥ 9॥

श्लोक 11

सृष्टं त्वयैव जगदेतदशेषमीश !

रक्षाविधिश्च विधिगोचर ! तावकीनः ।

संहारशक्तिरपि शङ्कर ! किङ्करी ते

श्रीशैलशेखर विभो ! तव सुप्रभातम्

॥ 10॥

श्लोक 12

एकस्त्वमेव बहुधा भव ! भासि लोके

निश्शङ्कधीर्वृषभकेतन ! मल्लिनाथ !

श्रीभ्रामरीप्रय ! सुखाश्रय ! लोकनाथ !

श्रीशैलशेखर विभो ! तव सुप्रभातम्

॥ 11॥

श्लोक 13

पातालगाङ्गजलमज्जननिर्मलाङ्गाः

भस्मत्रिपुण्ड्रसमलङ्कृतफालभागाः ।

गायन्ति देवमुनिभक्तजना भवन्तं

श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम्

॥ 12॥

श्लोक 14

सारस्वताम्बुयुतभोगवतीश्रितायाः

ब्रह्मेशविष्णुगिरिचुम्बितकृष्णवेण्याः ।

सोपानमार्गमधिरुह्य भजन्ति भक्ताः

श्रीमल्लिकार्जुन विभो ! तव सुप्रभातम्

॥ 13॥

श्लोक 15

श्रीमल्लिकार्जुनमहेश्वरसुप्रभात-

स्तोत्रं पठन्ति भुवि ये मनुजाः प्रभाते ।

ते सर्व सौख्यमनुभूय परानवाप्यं

श्रीशाम्भवं पदमवाप्य मुदं लभन्ते

॥ 14॥

श्लोक 16

इति श्रीमल्लिकार्जुनसुप्रभातं सम्पूर्णम् ।