Stotram - Sacred Scripture

Mrudapi Cha Chandanam

Mrudapi Cha Chandanam

Stotram
Unknown
3 Verses
110%

मृदपि च चन्दनम्

श्लोक 1

मृदपि च चन्दनमस्मिन् देशे ग्रामो ग्रामः सिद्धवनम् ।

यत्र च बाला देवीस्वरूपा बालाः सर्वे श्रीरामाः ॥

हरिमन्दिरमिदमखिलशरीरं

धनशक्ती जनसेवायै

यत्र च क्रीडायै वनराजः

धेनुर्माता परमशिवा

नित्यं प्रातः शिवगुणगानं

दीपनुतिः खलु शत्रुपरा

श्लोक 2

भाग्यविधायि निजार्जितकर्म

यत्र श्रमः श्रियमर्जयति

त्यागधनानां तपोनिधीनां

गाथां गायति कविवाणी

गङ्गाजलमिव नित्यनिर्मलं

ज्ञानं शंसति यतिवाणी

॥ 1 ॥

श्लोक 3

यत्र हि नैव स्वदेहविमोहः

युद्धरतानां वीराणां

यत्र हि कृषकः कार्यरतः सन्

पश्यति जीवनसाफल्यं

जीवनलक्ष्यं न हि धनपदवी

यत्र च परशिवपदसेवा

॥ 2 ॥

श्लोक 4

रचन: श्री जनार्दन हेग्डे