Stotram - Sacred Scripture

Sri Rama Apaduddharaka Stotram

Sri Rama Apaduddharaka Stotram

Stotram
Rama
44 Verses
110%

श्री राम आपदुद्धारक स्तोत्रम्

श्लोक 1

आपदामपहर्तारं दातारं सर्वसम्पदाम् ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥

नमः कोदण्डहस्ताय सन्धीकृतशराय च ।

दण्डिताखिलदैत्याय रामायापन्निवारिणे

श्लोक 2

आपन्नजनरक्षैकदीक्षायामिततेजसे ।

नमोऽस्तु विष्णवे तुभ्यं रामायापन्निवारिणे

॥ 1 ॥

श्लोक 3

पदाम्भोजरजस्स्पर्शपवित्रमुनियोषिते ।

नमोऽस्तु सीतापतये रामायापन्निवारिणे

॥ 2 ॥

श्लोक 4

दानवेन्द्रमहामत्तगजपञ्चास्यरूपिणे ।

नमोऽस्तु रघुनाथाय रामायापन्निवारिणे

॥ 3 ॥

श्लोक 5

महिजाकुचसंलग्नकुङ्कुमारुणवक्षसे ।

नमः कल्याणरूपाय रामायापन्निवारिणे

॥ 4 ॥

श्लोक 6

पद्मसम्भव भूतेश मुनिसंस्तुतकीर्तये ।

नमो मार्ताण्डवंश्याय रामायापन्निवारिणे

॥ 5 ॥

श्लोक 7

हरत्यार्तिं च लोकानां यो वा मधुनिषूदनः ।

नमोऽस्तु हरये तुभ्यं रामायापन्निवारिणे

॥ 6 ॥

श्लोक 8

तापकारणसंसारगजसिंहस्वरूपिणे ।

नमो वेदान्तवेद्याय रामायापन्निवारिणे

॥ 7 ॥

श्लोक 9

रङ्गत्तरङ्गजलधिगर्वहृच्छरधारिणे ।

नमः प्रतापरूपाय रामायापन्निवारिणे

॥ 8 ॥

श्लोक 10

दारोपहितचन्द्रावतंसध्यातस्वमूर्तये ।

नमः सत्यस्वरूपाय रामायापन्निवारिणे

॥ 9 ॥

श्लोक 11

तारानायकसङ्काशवदनाय महौजसे ।

नमोऽस्तु ताटकाहन्त्रे रामायापन्निवारिणे

॥ 10 ॥

श्लोक 12

रम्यसानुलसच्चित्रकूटाश्रमविहारिणे ।

नमः सौमित्रिसेव्याय रामायापन्निवारिणे

॥ 11 ॥

श्लोक 13

सर्वदेवहितासक्त दशाननविनाशिने ।

नमोऽस्तु दुःखध्वंसाय रामायापन्निवारिणे

॥ 12 ॥

श्लोक 14

रत्नसानुनिवासैक वन्द्यपादाम्बुजाय च ।

नमस्त्रैलोक्यनाथाय रामायापन्निवारिणे

॥ 13 ॥

श्लोक 15

संसारबन्धमोक्षैकहेतुधामप्रकाशिने ।

नमः कलुषसंहर्त्रे रामायापन्निवारिणे

॥ 14 ॥

श्लोक 16

पवनाशुग सङ्क्षिप्त मारीचादि सुरारये ।

नमो मखपरित्रात्रे रामायापन्निवारिणे

॥ 15 ॥

श्लोक 17

दाम्भिकेतरभक्तौघमहदानन्ददायिने ।

नमः कमलनेत्राय रामायापन्निवारिणे

॥ 16 ॥

श्लोक 18

लोकत्रयोद्वेगकर कुम्भकर्णशिरश्छिदे ।

नमो नीरददेहाय रामायापन्निवारिणे

॥ 17 ॥

श्लोक 19

काकासुरैकनयनहरल्लीलास्त्रधारिणे ।

नमो भक्तैकवेद्याय रामायापन्निवारिणे

॥ 18 ॥

श्लोक 20

भिक्षुरूपसमाक्रान्त बलिसर्वैकसम्पदे ।

नमो वामनरूपाय रामायापन्निवारिणे

॥ 19 ॥

श्लोक 21

राजीवनेत्रसुस्पन्द रुचिराङ्गसुरोचिषे ।

नमः कैवल्यनिधये रामायापन्निवारिणे

॥ 20 ॥

श्लोक 22

मन्दमारुतसंवीत मन्दारद्रुमवासिने ।

नमः पल्लवपादाय रामायापन्निवारिणे

॥ 21 ॥

श्लोक 23

श्रीकण्ठचापदलनधुरीणबलबाहवे ।

नमः सीतानुषक्ताय रामायापन्निवारिणे

॥ 22 ॥

श्लोक 24

राजराजसुहृद्योषार्चित मङ्गलमूर्तये ।

नम इक्ष्वाकुवंश्याय रामायापन्निवारिणे

॥ 23 ॥

श्लोक 25

मञ्जुलादर्शविप्रेक्षणोत्सुकैकविलासिने ।

नमः पालितभक्ताय रामायापन्निवारिणे

॥ 24 ॥

श्लोक 26

भूरिभूधर कोदण्डमूर्ति ध्येयस्वरूपिणे ।

नमोऽस्तु तेजोनिधये रामायापन्निवारिणे

॥ 25 ॥

श्लोक 27

योगीन्द्रहृत्सरोजातमधुपाय महात्मने ।

नमो राजाधिराजाय रामायापन्निवारिणे

॥ 26 ॥

श्लोक 28

भूवराहस्वरूपाय नमो भूरिप्रदायिने ।

नमो हिरण्यगर्भाय रामायापन्निवारिणे

॥ 27 ॥

श्लोक 29

योषाञ्जलिविनिर्मुक्त लाजाञ्चितवपुष्मते ।

नमः सौन्दर्यनिधये रामायापन्निवारिणे

॥ 28 ॥

श्लोक 30

नखकोटिविनिर्भिन्नदैत्याधिपतिवक्षसे ।

नमो नृसिंहरूपाय रामायापन्निवारिणे

॥ 29 ॥

श्लोक 31

मायामानुषदेहाय वेदोद्धरणहेतवे ।

नमोऽस्तु मत्स्यरूपाय रामायापन्निवारिणे

॥ 30 ॥

श्लोक 32

मितिशून्य महादिव्यमहिम्ने मानितात्मने ।

नमो ब्रह्मस्वरूपाय रामायापन्निवारिणे

॥ 31 ॥

श्लोक 33

अहङ्कारेतरजन स्वान्तसौधविहारिणे ।

नमोऽस्तु चित्स्वरूपाय रामायापन्निवारिणे

॥ 32 ॥

श्लोक 34

सीतालक्ष्मणसंशोभिपार्श्वाय परमात्मने ।

नमः पट्टाभिषिक्ताय रामायापन्निवारिणे

॥ 33 ॥

श्लोक 35

अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ ।

आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ

॥ 34 ॥

श्लोक 36

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।

तिष्ठन्ममाग्रतो नित्यं रामः पातु सलक्ष्मणः

॥ 35 ॥

श्लोक 37

आपदामपहर्तारं दातारं सर्वसम्पदाम् ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥

फलश्रुति

इमं स्तवं भगवतः पठेद्यः प्रीतमानसः ।

प्रभाते वा प्रदोषे वा रामस्य परमात्मनः

॥ 36 ॥

श्लोक 38

स तु तीर्त्वा भवाम्बोधिमापदस्सकलानपि ।

रामसायुज्यमाप्नोति देवदेवप्रसादतः

॥ 1 ॥

श्लोक 39

कारागृहादिबाधासु सम्प्राप्ते बहुसङ्कटे ।

आपन्निवारकस्तोत्रं पठेद्यस्तु यथाविधिः

॥ 2 ॥

श्लोक 40

संयोज्यानुष्टुभं मन्त्रमनुश्लोकं स्मरन्विभुम् ।

सप्ताहात्सर्वबाधाभ्यो मुच्यते नात्र संशयः

॥ 3 ॥

श्लोक 41

द्वात्रिंशद्वारजपतः प्रत्यहं तु दृढव्रतः ।

वैशाखे भानुमालोक्य प्रत्यहं शतसङ्ख्यया

॥ 4 ॥

श्लोक 42

धनवान् धनदप्रख्यस्स भवेन्नात्र संशयः ।

बहुनात्र किमुक्तेन यं यं कामयते नरः

॥ 5 ॥

श्लोक 43

तं तं काममवाप्नोति स्तोत्रेणानेन मानवः ।

यन्त्रपूजाविधानेन जपहोमादितर्पणैः

॥ 6 ॥

श्लोक 44

यस्तु कुर्वीत सहसा सर्वान्कामानवाप्नुयात् ।

इह लोके सुखी भूत्वा परे मुक्तो भविष्यति

॥ 7 ॥

श्लोक 45