Kavacham - Sacred Scripture

Shani Vajrapanjara Kavacham

Shani Vajrapanjara Kavacham

Kavacham
Unknown
5 Verses
110%

शनि वज्रपञ्जर कवचम्

श्लोक 1

नीलाम्बरो नीलवपुः किरीटी

गृध्रस्थितास्त्रकरो धनुष्मान् ।

चतुर्भुजः सूर्यसुतः प्रसन्नः

सदा ममस्याद्वरदः प्रशान्तः ॥

ब्रह्मा उवाच ।

शृणुध्वं ऋषयः सर्वे शनि पीडाहरं महत् ।

कवचं शनिराजस्य सौरैरिदमनुत्तमम् ॥

कवचं देवतावासं वज्र पञ्जर संङ्गकम् ।

शनैश्चर प्रीतिकरं सर्वसौभाग्यदायकम् ॥

अथ श्री शनि वज्र पञ्जर कवचम् ।

ॐ श्री शनैश्चरः पातु फालं मे सूर्यनन्दनः । [भालं]

नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः

श्लोक 2

नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।

स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः

॥ 1 ॥

श्लोक 3

स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः ।

वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा

॥ 2 ॥

श्लोक 4

नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा ।

ऊरू ममान्तकः पातु यमो जानुयुगं तथा

॥ 3 ॥

श्लोक 5

पादौ मन्दगतिः पातु सर्वाङ्गं पातु पिप्पलः ।

अङ्गोपाङ्गानि सर्वाणि रक्षेन् मे सूर्यनन्दनः

॥ 4 ॥

श्लोक 6

फलश्रुतिः

इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः ।

न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥

व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोपिवा ।

कलत्रस्थो गतोवापि सुप्रीतस्तु सदा शनिः ॥

अष्टमस्थो सूर्यसुते व्यये जन्मद्वितीयगे ।

कवचं पठते नित्यं न पीडा जायते क्वचित् ॥

इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ।

द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा ।

जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥

इति श्री ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे शनिवज्रपञ्जर कवचं सम्पूर्णम् ॥