Shani Stotram Dasaratha Krutam
Shani Stotram Dasaratha Krutam
शनि स्तोत्रं दशरथ कृतम्
श्लोक 1
नमः कृष्णाय नीलाय शिखिखण्डनिभाय च ।
नमो नीलमधूकाय नीलोत्पलनिभाय च
श्लोक 2
नमो निर्मांसदेहाय दीर्घश्रुतिजटाय च ।
नमो विशालनेत्राय शुष्कोदर भयानक
॥ 1 ॥
श्लोक 3
नमः पौरुषगात्राय स्थूलरोमाय ते नमः ।
नमो नित्यं क्षुधार्ताय नित्यतृप्ताय ते नमः
॥ 2 ॥
श्लोक 4
नमो घोराय रौद्राय भीषणाय करालिने ।
नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते
॥ 3 ॥
श्लोक 5
नमस्ते घोररूपाय दुर्निरीक्ष्याय ते नमः ।
नमस्ते सर्वभक्षाय वलीमुख नमोऽस्तु ते
॥ 4 ॥
श्लोक 6
सूर्यपुत्त्र नमस्तेऽस्तु भास्वरोभयदायिने ।
अधोदृष्टे नमस्तेऽस्तु संवर्तक नमोऽस्तु ते
॥ 5 ॥
श्लोक 7
नमो मन्दगते तुभ्यं निष्प्रभाय नमोनमः ।
तपसा ज्ञानदेहाय नित्ययोगरताय च
॥ 6 ॥
श्लोक 8
ज्ञानचक्षुर्नमस्तेऽस्तु काश्यपात्मजसूनवे ।
तुष्टो ददासि राज्यं त्वं क्रुद्धो हरसि तत् क्षणात्
॥ 7 ॥
श्लोक 9
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ।
त्वयावलोकितास्सौरे दैन्यमाशुव्रजन्तिते
॥ 8 ॥
श्लोक 10
ब्रह्मा शक्रोयमश्चैव मुनयः सप्ततारकाः ।
राज्यभ्रष्टाः पतन्तीह तव दृष्ट्याऽवलोकितः
॥ 9 ॥
श्लोक 11
त्वयाऽवलोकितास्तेऽपि नाशं यान्ति समूलतः ।
प्रसादं कुरु मे सौरे प्रणत्वाहित्वमर्थितः
॥ 10 ॥
