Stotram - Sacred Scripture

Runa Vimochana Angaraka (Mangala) Stotram

Runa Vimochana Angaraka (Mangala) Stotram

Stotram
Unknown
13 Verses
110%

ऋण विमोचन अङ्गारक (मङ्गल) स्तोत्रम्

श्लोक 1

स्कन्द उवाच ।

ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् ।

ब्रह्मोवाच ।

वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् ॥

अस्य श्री अङ्गारक स्तोत्र महामन्त्रस्य गौतम ऋषिः, अनुष्टुप् छन्दः, अङ्गारको देवता मम ऋण विमोचनार्थे जपे विनियोगः ।

ध्यानम् –

धरणी गर्भ सम्भूतं विद्युत्कान्ति समप्रभम् ।

कुमारं शक्तिहस्तं तं कुजं प्रणमाम्यहम्

श्लोक 2

रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः ।

चतुर्भुजो मेषगतो वरदश्च धरासुतः

॥ 1 ॥

श्लोक 3

अथ स्तोत्रम् –

मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।

स्थिरासनो महाकायः सर्वकर्मावबोधकः

॥ 2 ॥

श्लोक 4

लोहितो लोहिताङ्गश्च सामगायी कृपाकरः ।

धर्मराजः कुजो भौमो भूमिजो भूमिनन्दनः

॥ 3 ॥

श्लोक 5

अङ्गारको यमश्चैव सर्वरोगापहारकः ।

सृष्टिकर्ताऽपहर्ता च सर्वकामफलप्रदः

॥ 4 ॥

श्लोक 6

भूतिदो ग्रहपूज्यश्च वक्त्रो रक्तवपुः प्रभुः ।

एतानि कुजनामानि यो नित्यं प्रयतः पठेत् ।

ऋणं न जायते तस्य धनं प्राप्नोत्यसंशयम्

॥ 5 ॥

श्लोक 7

रक्तपुष्पैश्च गन्धैश्च दीपधूपादिभिस्तथा ।

मङ्गलं पूजयित्वा तु मङ्गलेऽहनि सर्वदा

॥ 6 ॥

श्लोक 8

ऋणरेखाः प्रकर्तव्याः दग्धाङ्गारैस्तदग्रतः ।

सप्तविंशतिनामानि पठित्वा तु तदन्तिके

॥ 7 ॥

श्लोक 9

ताश्च प्रमार्जयेत्पश्चाद्वामपादेन संस्पृशन् ।

एवं कृत्वा न सन्देहो ऋणहीनो धनी भवेत्

॥ 8 ॥

श्लोक 10

भूमिजस्य प्रसादेन ग्रहपीडा विनश्यति ।

येनार्जिता जगत्कीर्तिर्भूमिपुत्रेण शाश्वती

॥ 9 ॥

श्लोक 11

शत्रवश्च हता येन भौमेन महितात्मना ।

स प्रीयतां तु भौमोऽद्य तुष्टो भूयात् सदा मम

॥ 10 ॥

श्लोक 12

मूलमन्त्रः –

अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।

नमोऽस्तु ते ममाशेष ऋणमाशु विमोचय

॥ 11 ॥

श्लोक 13

अर्घ्यम् –

भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ।

ऋणार्तस्त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते

॥ 12 ॥

श्लोक 14

इति ऋण विमोचन अङ्गारक स्तोत्रम् ॥

ऋण विमोचन अङ्गारक (मङ्गल) स्तोत्रम् | (Runa Vimochana Angaraka (Mangala) Stotram) Lyrics | Vedic Tithi