Runa Vimochana Ganapathi Stotram
Runa Vimochana Ganapathi Stotram
ऋण विमोचन गणपति स्तोत्रम्
श्लोक 1
स्मरामि देवदेवेशं वक्रतुण्डं महाबलम् ।
षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये
श्लोक 2
एकाक्षरं ह्येकदन्तं एकं ब्रह्म सनातनम् ।
एकमेवाद्वितीयं च नमामि ऋणमुक्तये
॥ 1 ॥
श्लोक 3
महागणपतिं देवं महासत्त्वं महाबलम् ।
महाविघ्नहरं शम्भोः नमामि ऋणमुक्तये
॥ 2 ॥
श्लोक 4
कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् ।
कृष्णसर्पोपवीतं च नमामि ऋणमुक्तये
॥ 3 ॥
श्लोक 5
रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् ।
रक्तपुष्पप्रियं देवं नमामि ऋणमुक्तये
॥ 4 ॥
श्लोक 6
पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम् ।
पीतपुष्पप्रियं देवं नमामि ऋणमुक्तये
॥ 5 ॥
श्लोक 7
धूम्राम्बरं धूम्रवर्णं धूम्रगन्धानुलेपनम् ।
होमधूमप्रियं देवं नमामि ऋणमुक्तये
॥ 6 ॥
श्लोक 8
फालनेत्रं फालचन्द्रं पाशाङ्कुशधरं विभुम् ।
चामरालङ्कृतं देवं नमामि ऋणमुक्तये
॥ 7 ॥
श्लोक 9
इदं त्वृणहरं स्तोत्रं सन्ध्यायां यः पठेन्नरः ।
षण्मासाभ्यन्तरेणैव ऋणमुक्तो भविष्यति
॥ 8 ॥
श्लोक 10
इति ऋणविमोचन महागणपति स्तोत्रम् ।
