Runa Vimochana Narasimha Stotram
Runa Vimochana Narasimha Stotram
ऋण विमोचन नृसिंह स्तोत्रम्
श्लोक 1
ध्यानम् –
वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि ।
यस्यास्ते हृदये संवित्तं नृसिंहमहं भजे ॥
अथ स्तोत्रम् –
देवताकार्यसिद्ध्यर्थं सभास्तम्भसमुद्भवम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये
श्लोक 2
लक्ष्म्यालिङ्गित वामाङ्कं भक्तानां वरदायकम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये
॥ 1 ॥
श्लोक 3
आन्त्रमालाधरं शङ्खचक्राब्जायुधधारिणम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये
॥ 2 ॥
श्लोक 4
स्मरणात् सर्वपापघ्नं कद्रूजविषनाशनम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये
॥ 3 ॥
श्लोक 5
सिंहनादेन महता दिग्विदिग्भयनाशनम् । [दिग्दन्ति]
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये
॥ 4 ॥
श्लोक 6
प्रह्लादवरद श्रीशं दैत्येश्वरविदारणम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये
॥ 5 ॥
श्लोक 7
क्रूरग्रहैः पीडितानां भक्तानामभयप्रदम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये
॥ 6 ॥
श्लोक 8
वेदवेदान्तयज्ञेशं ब्रह्मरुद्रादिवन्दितम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये
॥ 7 ॥
श्लोक 9
इत्थं यः पठते नित्यं ऋणमोचन सिद्धये । [सञ्ज्ञितम्]
अनृणो जायते शीघ्रं धनं विपुलमाप्नुयात्
॥ 8 ॥
श्लोक 10
सर्वसिद्धिप्रदं नृणां सर्वैश्वर्यप्रदायकम् ।
तस्मात् सर्वप्रयत्नेन पठेत् स्तोत्रमिदं सदा
॥ 9 ॥
श्लोक 11
इति श्रीनृसिंहपुराणे ऋणमोचन श्री नृसिंह स्तोत्रम् ।
