Mantra Pushpam
Mantra Pushpam
मन्त्र पुष्पम्
भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः ।
भ॒द्र-म्प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभिः॑ ।
व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ॥
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॑स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒॒स्तिन॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
यो॑-ऽपा-म्पुष्पं॒-वेँद॑ ।
पुष्प॑वा-न्प्र॒जावा᳚-न्पशु॒मा-न्भ॑वति ।
च॒न्द्रमा॒ वा अ॒पा-म्पुष्पम्᳚ ।
पुष्प॑वा-न्प्र॒जावा᳚-न्पशु॒मा-न्भ॑वति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥
अ॒ग्निर्वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यो᳚-ऽग्नेरा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒वा अ॒ग्नेरा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥
वा॒युर्वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यो वा॒योरा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वै वा॒योरा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥
अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यो॑-ऽमुष्य॒तप॑त आ॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वा अ॒मुष्य॒तप॑त आ॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥
च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यश्च॒न्द्रम॑स आ॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥
नक्षत्र॑त्राणि॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यो नक्षत्र॑त्राणामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥
प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
यः प॒र्जन्य॑स्या॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वै प॒र्जन्य॑स्या॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य ए॒वं-वेँद॑ ।
यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ॥
सं॒वँ॒त्स॒रो वा अ॒पामा॒यत॑न॒म् ।
आ॒यत॑नवा-न्भवति ।
य-स्सं॑वँत्स॒रस्या॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति ।
आपो॒ वै सं॑वँत्स॒रस्या॒यत॑नम् ।
आ॒यत॑नवा-न्भवति ।
य एवं-वेँद॑ ।
यो᳚-ऽफ्सु नाव॒-म्प्रति॑ष्ठितां॒-वेँद॑ ।
प्रत्ये॒व ति॑ष्ठति ॥
ॐ रा॒जा॒धि॒रा॒जाय॑ प्रसह्य सा॒हिने᳚ ।
नमो॑ व॒यं-वैँ᳚श्रव॒णाय॑ कुर्महे ।
स मे॒ कामा॒न् काम॒ कामा॑य॒ मह्यम्᳚ ।
का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु ।
कु॒बे॒राय॑ वैश्रव॒णाय॑ ।
म॒हा॒राजाय॒ नमः॑ ॥
ओ᳚-न्तद्ब्र॒ह्म ।
ओ᳚-न्तद्वा॒युः ।
ओ᳚-न्तदा॒त्मा ।
ओ᳚-न्तथ्स॒त्यम् ।
ओ᳚-न्तत्सर्वम्᳚ ।
ओ᳚-न्तत्पुरो॒र्नमः ॥
अन्तश्चरति॑ भूते॒षु गुहायां-विँ॑श्वमू॒र्तिषु ।
त्वं-यँज्ञस्त्वं-वँषट्कारस्त्व-मिन्द्रस्त्वग्ं
रुद्रस्त्वं-विँष्णुस्त्व-म्ब्रह्मत्व॑-म्प्रजा॒पतिः ।
त्व-न्त॑दाप॒ आपो॒ ज्योती॒रसो॒-ऽमृत-म्ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ।
ईशानस्सर्व॑ विद्या॒नामीश्वरस्सर्व॑भूता॒नां
ब्रह्माधि॑पति॒-र्ब्रह्म॒णो-ऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ।
तद्विष्णोः᳚ पर॒म-म्प॒दग्ं सदा॑ पश्यन्ति सू॒रयः॑ ।
दि॒वीव॒ चक्षु॒रात॑तम् ।
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाग्ं सस्समि॑न्धते ।
विष्नो॒र्यत्प॑र॒म-म्प॒दम् ।
ऋतग्ं स॒त्य-म्प॑र-म्ब्र॒ह्म॒ पु॒रुष॑-ङ्कृष्ण॒पिङ्ग॑लम् ।
ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥
ओ-न्ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ।
About This Stotram
Overview
Mantra Pushpam is a Sanskrit Vedic text used as a concluding offering in major Vedic ceremonies, rituals, and pujas. Its verses are drawn primarily from the Taittiriya Aranyaka (10.1.1–14) of the Krishna Yajurveda, and they invoke blessings for auspiciousness, health, and prosperity through the recitation of sacred mantras as a symbolic floral offering (pushpam). The text belongs to the Krishna Yajurveda tradition and is part of the ritual literature of the Vedic canon.
What are the benefits of chanting Mantra Pushpam?
- Completes and consecrates Vedic rituals as a closing offering
- Purification of the mind and the ritual environment
- Invocation of auspiciousness and well-being
- Attainment of spiritual merit through Vedic recitation
When is the best time to recite this?
Mantra Pushpam is primarily recited at the conclusion of Vedic rituals, yajnas, homas, and pujas, where it functions as a standard closing element. It may also be recited during morning or evening prayers for general well-being and auspiciousness.
What is the historical and traditional background?
Mantra Pushpam is sourced from the Taittiriya Aranyaka, the forest treatises appended to the Taittiriya Samhita of the Krishna Yajurveda, placing it firmly within the Vedic corpus. Aranyakas bridge the mantra collections (Samhitas) and philosophical Upanishads, and their contents were composed and transmitted orally during the later Vedic period. Authorship is attributed to the ancient Rishis in the tradition of revealed scripture (Shruti). The practice of reciting Mantra Pushpam as a ritual conclusion has been continuous for millennia across multiple Vedic schools.
Available scripts
This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.
Related Texts
- Purusha Suktam — a Rigvedic hymn used in major Vedic rituals alongside Mantra Pushpam as a primary offering
- Narayana Suktam — another Taittiriya Aranyaka text from the same Krishna Yajurveda tradition, often recited in the same ritual context
