Sri Narasimha Mantra Rajapada Stotram
Sri Narasimha Mantra Rajapada Stotram
श्री नृसिंह मन्त्रराजपाद स्तोत्रम्
श्लोक 1
पार्वत्युवाच ।
मन्त्राणां परमं मन्त्रं गुह्यानां गुह्यमेव च ।
ब्रूहि मे नारसिंहस्य तत्त्वं मन्त्रस्य दुर्लभम् ॥
शङ्कर उवाच ।
वृत्तोत्फुल्लविशालाक्षं विपक्षक्षयदीक्षितम् ।
निनादत्रस्तविश्वाण्डं विष्णुमुग्रं नमाम्यहम्
श्लोक 2
सर्वैरवध्यतां प्राप्तं सबलौघं दितेः सुतम् ।
नखाग्रैः शकलीचक्रे यस्तं वीरं नमाम्यहम्
॥ 1 ॥
श्लोक 3
पदावष्टब्धपातालं मूर्धाऽऽविष्टत्रिविष्टपम् ।
भुजप्रविष्टाष्टदिशं महाविष्णुं नमाम्यहम्
॥ 2 ॥
श्लोक 4
ज्योतींष्यर्केन्दुनक्षत्रज्वलनादीन्यनुक्रमात् ।
ज्वलन्ति तेजसा यस्य तं ज्वलन्तं नमाम्यहम्
॥ 3 ॥
श्लोक 5
सर्वेन्द्रियैरपि विना सर्वं सर्वत्र सर्वदा ।
यो जानाति नमाम्याद्यं तमहं सर्वतोमुखम्
॥ 4 ॥
श्लोक 6
नरवत् सिंहवच्चैव यस्य रूपं महात्मनः ।
महासटं महादंष्ट्रं तं नृसिंहं नमाम्यहम्
॥ 5 ॥
श्लोक 7
यन्नामस्मरणाद्भीताः भूतवेतालराक्षसाः ।
रोगाद्याश्च प्रणश्यन्ति भीषणं तं नमाम्यहम्
॥ 6 ॥
श्लोक 8
सर्वेऽपि यं समाश्रित्य सकलं भद्रमश्नुते ।
श्रिया च भद्रया जुष्टो यस्तं भद्रं नमाम्यहम्
॥ 7 ॥
श्लोक 9
साक्षात् स्वकाले सम्प्राप्तं मृत्युं शत्रुगणान्वितम् ।
भक्तानां नाशयेद्यस्तु मृत्युमृत्युं नमाम्यहम्
॥ 8 ॥
श्लोक 10
नमस्कारात्मकं यस्मै विधायात्मनिवेदनम् ।
त्यक्तदुःखोऽखिलान् कामानश्नन्तं तं नमाम्यहम्
॥ 9 ॥
श्लोक 11
दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः ।
अतोऽहमपि ते दासः इति मत्वा नमाम्यहम्
॥ 10 ॥
श्लोक 12
शङ्करेणादरात् प्रोक्तं पदानां तत्त्वमुत्तमम् ।
त्रिसन्ध्यं यः पठेत्तस्य श्रीविद्याऽऽयुश्च वर्धते
॥ 11 ॥
श्लोक 13
इति श्रीशङ्करकृत श्री नृसिंह मन्त्रराजपद स्तोत्रम् ।
