Mantra - Sacred Scripture

Mantra Matruka Pushpa Mala Stava

Mantra Matruka Pushpa Mala Stava

Mantra
Unknown
17 Verses
110%

मन्त्र मातृका पुष्प माला स्तव

कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि-

-द्वीपे कल्पकवाटिकापरिवृते कादम्बवाट्युज्ज्वले ।

रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे

चिन्तारत्नविनिर्मितं जननि ते सिंहासनं भावये ॥ 1 ॥

एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थितां

बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।

चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां

तां त्वां चन्द्रकलावतंसमकुटां चारुस्मितां भावये ॥ 2 ॥

ईशानादिपदं शिवैकफलदं रत्नासनं ते शुभं

पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः ।

शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं

कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्पताम् ॥ 3 ॥

लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे

प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः ।

गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैः

स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ 4 ॥

ह्रीं‍काराङ्कितमन्त्रलक्षिततनो हेमाचलात्सञ्चितैः

रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् ।

मुक्तासन्ततियज्ञसूत्रममलं सौवर्णतन्तूद्भवं

दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ 5 ॥

हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां

हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदे कङ्कणे ।

मञ्जीरौ मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिं

नासामौक्तिकमङ्गुलीयकटकौ काञ्चीमपि स्वीकुरु ॥ 6 ॥

सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं

कस्तूरीतिलकं च फालफलके गोरोचनापत्रकम् ।

गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं

कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ 7 ॥

कह्लारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै-

-र्जातीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः ।

केतक्या करवीरकैर्बहुविधैः क्लुप्ताः स्रजो मालिकाः

सङ्कल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम् ॥ 8 ॥

हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलै-

-र्यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् ।

तानीमानि तवाम्ब कोमलतराण्यामोदलीलागृहा-

-ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥ 9 ॥

लक्ष्मीमुज्ज्वलयामि रत्ननिवहोद्भास्वत्तरे मन्दिरे

मालारूपविलम्बितैर्मणिमयस्तम्भेषु सम्भावितैः ।

चित्रैर्हाटकपुत्रिकाकरधृतैर्गव्यैर्घृतैर्वर्धितै-

-र्दिव्यैर्दीपगणैर्धिया गिरिसुते सन्तुष्टये कल्पताम् ॥ 10 ॥

ह्रीं‍कारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं

दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा ।

दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं

माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ 11 ॥

सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः

पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः ।

मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः

पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥ 12 ॥

कन्याभिः कमनीयकान्तिभिरलङ्कारामलारार्तिका

पात्रे मौक्तिकचित्रपङ्क्तिविलसत्कर्पूरदीपालिभिः ।

तत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं

मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥ 13 ॥

लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्त्रं तु धत्ते रसा-

-दिन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।

वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागव-

-द्भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥ 14 ॥

ह्रीं‍कारत्रयसम्पुटेन मनुनोपास्ये त्रयीमौलिभि-

-र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके ।

सल्लापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तु ते

संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ 15 ॥

श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा

सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।

चित्ताम्भोरुहमण्टपे गिरिसुता नृत्तं विधत्ते रसा-

-द्वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ 16 ॥

इति गिरिवरपुत्रीपादराजीवभूषा

भुवनममलयन्ती सूक्तिसौरभ्यसारैः ।

शिवपदमकरन्दस्यन्दिनीयं निबद्धा

मदयतु कविभृङ्गान्मातृकापुष्पमाला ॥ 17 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ मन्त्रमातृकापुष्पमाला स्तवः ।

About This Stotram

Overview

The Mantra Matruka Pushpa Mala Stava is a 17-verse Sanskrit stava (hymn of praise) whose title translates as "a garland of flowers from the seed-syllables of mantras." The text invokes a supreme Goddess associated with a divine throne, drawing on the Tantric concept of the Matruka — the primordial Sanskrit syllables from which all mantras and creation emanate. It belongs to the Shakta Tantric tradition, where the Sanskrit alphabet itself is treated as a form of the divine feminine.

What are the benefits of chanting Mantra Matruka Pushpa Mala Stava?

  • Invokes the divine energy associated with the Matruka syllables
  • Supports mantra japa and meditative practice
  • Purification through devotion to the source of sacred sound
  • Deepens connection with the Shakta Tantric tradition

When is the best time to recite this?

Morning or evening during dedicated periods of prayer and mantra practice. It may also be used within specific pujas or rituals directed toward the Shakta deity invoked.

What is the historical and traditional background?

The Matruka system — the enumeration of the Sanskrit alphabet as a manifestation of Shakti — is central to Tantric traditions, particularly Kashmiri Shaivism and related Shakta schools. Compositions structured as garlands of mantra-syllables are a recognized genre within this framework. The author and date of composition of this specific stava are unknown. The text is not identified within the major Puranas and likely represents a specialized Tantric or scholarly devotional composition. Its 17-verse structure is not a standard format, which suggests it may be a standalone work rather than an excerpt.

Available scripts

This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.

Related Texts

  • Lalita Sahasranama — a Shakta text that also addresses the Goddess in relation to mantra and creation
  • Soundarya Lahari — a Shakta hymn by Adi Shankaracharya that draws extensively on Tantric mantra theory