Hanuman Pancha Ratnam
Hanuman Pancha Ratnam
Stotram
Hanuman
6 Verses
110%
हनुमत्-पञ्चरत्नम्
श्लोक 1
वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम्
सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम्
श्लोक 2
तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गम्
सञ्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम्
॥ 1 ॥
श्लोक 3
शम्बरवैरिशरातिगमम्बुजदल विपुललोचनोदारम्
कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे
॥ 2 ॥
श्लोक 4
दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः
दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः
॥ 3 ॥
श्लोक 5
वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम्
दीनजनावनदीक्षं पवनतपः पाकपुञ्जमद्राक्षम्
॥ 4 ॥
श्लोक 6
एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम्
चिरमिह निखिलान्भोगान्भुङ्क्त्वा श्रीरामभक्तिभाग्भवति
॥ 5 ॥
