Namavali - Sacred Scripture

Sri Vishnu Ashtottara Sata Namavali

Sri Vishnu Ashtottara Sata Namavali

Namavali
Vishnu
0 Verses
110%

श्री विष्णु अष्टोत्तर शत नामावलि

श्लोक 1

ॐ विष्णवे नमः ।

ॐ जिष्णवे नमः ।

ॐ वषट्काराय नमः ।

ॐ देवदेवाय नमः ।

ॐ वृषाकपये नमः [ॐ वृषापतये नमः] ।

ॐ दामोदराय नमः ।

ॐ दीनबन्धवे नमः ।

ॐ आदिदेवाय नमः ।

ॐ अदितेस्तुताय नमः ।

ॐ पुण्डरीकाय नमः (10)

ॐ परानन्दाय नमः ।

ॐ परमात्मने नमः ।

ॐ परात्पराय नमः ।

ॐ परशुधारिणे नमः ।

ॐ विश्वात्मने नमः ।

ॐ कृष्णाय नमः ।

ॐ कलिमलापहारिणे नमः ।

ॐ कौस्तुभोद्भासितोरस्काय नमः ।

ॐ नराय नमः ।

ॐ नारायणाय नमः (20)

ॐ हरये नमः ।

ॐ हराय नमः ।

ॐ हरप्रियाय नमः ।

ॐ स्वामिने नमः ।

ॐ वैकुण्ठाय नमः ।

ॐ विश्वतोमुखाय नमः ।

ॐ हृषीकेशाय नमः ।

ॐ अप्रमेयात्मने नमः ।

ॐ वराहाय नमः ।

ॐ धरणीधराय नमः (30)

ॐ वामनाय नमः ।

ॐ वेदवक्ताय नमः ।

ॐ वासुदेवाय नमः ।

ॐ सनातनाय नमः ।

ॐ रामाय नमः ।

ॐ विरामाय नमः ।

ॐ विरजाय नमः ।

ॐ रावणारये नमः ।

ॐ रमापतये नमः ।

ॐ वैकुण्ठवासिने नमः (40)

ॐ वसुमते नमः ।

ॐ धनदाय नमः ।

ॐ धरणीधराय नमः ।

ॐ धर्मेशाय नमः ।

ॐ धरणीनाथाय नमः ।

ॐ ध्येयाय नमः ।

ॐ धर्मभृतांवराय नमः ।

ॐ सहस्रशीर्षाय नमः ।

ॐ पुरुषाय नमः ।

ॐ सहस्राक्षाय नमः (50)

ॐ सहस्रपादे नमः ।

ॐ सर्वगाय नमः [ॐ सर्वदाय नमः] ।

ॐ सर्वविदे नमः ।

ॐ सर्वाय नमः ।

ॐ शरण्याय नमः ।

ॐ साधुवल्लभाय नमः ।

ॐ कौसल्यानन्दनाय नमः ।

ॐ श्रीमते नमः ।

ॐ रक्षसःकुलनाशकाय नमः ।

ॐ जगत्कर्ताय नमः (60)

ॐ जगद्धर्ताय नमः ।

ॐ जगज्जेताय नमः ।

ॐ जनार्तिहराय नमः ।

ॐ जानकीवल्लभाय नमः ।

ॐ देवाय नमः ।

ॐ जयरूपाय नमः ।

ॐ जलेश्वराय नमः ।

ॐ क्षीराब्धिवासिने नमः ।

ॐ क्षीराब्धितनयावल्लभाय नमः ।

ॐ शेषशायिने नमः (70)

ॐ पन्नगारिवाहनाय नमः ।

ॐ विष्टरश्रवसे नमः ।

ॐ माधवाय नमः ।

ॐ मथुरानाथाय नमः ।

ॐ मुकुन्दाय नमः ।

ॐ मोहनाशनाय नमः ।

ॐ दैत्यारिणे नमः ।

ॐ पुण्डरीकाक्षाय नमः ।

ॐ अच्युताय नमः ।

ॐ मधुसूदनाय नमः (80)

ॐ सोमसूर्याग्निनयनाय नमः ।

ॐ नृसिंहाय नमः ।

ॐ भक्तवत्सलाय नमः ।

ॐ नित्याय नमः ।

ॐ निरामयाय नमः ।

ॐ शुद्धाय नमः ।

ॐ वरदेवाय नमः [ॐ नरदेवाय नमः] ।

ॐ जगत्प्रभवे नमः ।

ॐ हयग्रीवाय नमः ।

ॐ जितरिपवे नमः (90)

ॐ उपेन्द्राय नमः ।

ॐ रुक्मिणीपतये नमः ।

ॐ सर्वदेवमयाय नमः ।

ॐ श्रीशाय नमः ।

ॐ सर्वाधाराय नमः ।

ॐ सनातनाय नमः ।

ॐ सौम्याय नमः ।

ॐ सौम्यप्रदाय नमः ।

ॐ स्रष्टे नमः ।

ॐ विष्वक्सेनाय नमः (100)

ॐ जनार्दनाय नमः ।

ॐ यशोदातनयाय नमः ।

ॐ योगिने नमः ।

ॐ योगशास्त्रपरायणाय नमः ।

ॐ रुद्रात्मकाय नमः ।

ॐ रुद्रमूर्तये नमः ।

ॐ राघवाय नमः ।

ॐ मधुसूदनाय नमः [ॐ रुद्रसूदनाय नमः] (108)