Stotram - Sacred Scripture

Sri Sita Rama Stotram

Sri Sita Rama Stotram

Stotram
Rama
11 Verses
110%

श्री सीताराम स्तोत्रम्

श्लोक 1

अयोध्यापुरनेतारं मिथिलापुरनायिकाम् ।

राघवाणामलङ्कारं वैदेहानामलङ्क्रियाम्

श्लोक 2

रघूणां कुलदीपं च निमीनां कुलदीपिकाम् ।

सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम्

॥ 1 ॥

श्लोक 3

पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः ।

वशिष्ठानुमताचारं शतानन्दमतानुगाम्

॥ 2 ॥

श्लोक 4

कौसल्यागर्भसम्भूतं वेदिगर्भोदितां स्वयम् ।

पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम्

॥ 3 ॥

श्लोक 5

चन्द्रकान्ताननाम्भोजं चन्द्रबिम्बोपमाननाम् ।

मत्तमातङ्गगमनं मत्तहंसवधूगताम्

॥ 4 ॥

श्लोक 6

चन्दनार्द्रभुजामध्यं कुङ्कुमार्द्रकुचस्थलीम् ।

चापालङ्कृतहस्ताब्जं पद्मालङ्कृतपाणिकाम्

॥ 5 ॥

श्लोक 7

शरणागतगोप्तारं प्रणिपादप्रसादिकाम् ।

कालमेघनिभं रामं कार्तस्वरसमप्रभाम्

॥ 6 ॥

श्लोक 8

दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् ।

अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकाङ्क्षिणौ

॥ 7 ॥

श्लोक 9

अन्योन्यसदृशाकारौ त्रैलोक्यगृहदम्पती।

इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम्

॥ 8 ॥

श्लोक 10

अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः ।

तस्य तौ तनुतां पुण्याः सम्पदः सकलार्थदाः

॥ 9 ॥

श्लोक 11

एवं श्रीरामचन्द्रस्य जानक्याश्च विशेषतः ।

कृतं हनूमता पुण्यं स्तोत्रं सद्यो विमुक्तिदम् ।

यः पठेत्प्रातरुत्थाय सर्वान् कामानवाप्नुयात्

॥ 10 ॥

श्लोक 12

इति हनूमत्कृत-सीताराम स्तोत्रं सम्पूर्णम् ॥