Stotram - Sacred Scripture

Srimad Bhagawad Gita Chapter 8

Srimad Bhagawad Gita Chapter 8

Stotram
Unknown
29 Verses
110%

श्रीमद्भगवद्गीता मूलम् - अष्टमोऽध्यायः

ॐ श्री परमात्मने नमः

अथ अष्टमोऽध्यायः ।

अक्षरपरब्रह्मयोगः

अर्जुन उवाच

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।

अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ 1 ॥

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।

प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ 2 ॥

श्रीभगवानुवाच

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।

भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥ 3 ॥

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।

अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ 4 ॥

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।

यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ 5 ॥

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।

तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ 6 ॥

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।

मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥ 7 ॥

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।

परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ 8 ॥

कविं पुराणमनुशासितारमणोरणीयंसमनुस्मरेद्यः।

सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ 9 ॥

प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव।

भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् ॥ 10 ॥

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ 11 ॥

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।

मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ 12 ॥

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।

यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ 13 ॥

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।

तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ 14 ॥

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।

नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ 15 ॥

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।

मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ 16 ॥

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ।

रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ 17 ॥

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।

रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥ 18 ॥

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।

रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ 19 ॥

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।

यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ 20 ॥

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।

यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ 21 ॥

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।

यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ 22 ॥

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।

प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ 23 ॥

अग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम् ।

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ 24 ॥

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।

तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ 25 ॥

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।

एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ 26 ॥

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।

तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ 27 ॥

वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्।

अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम् ॥ 28 ॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे

श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ॥8 ॥

About This Stotram

Srimad Bhagawad Gita Chapter 8

Sanskrit Title: श्रीमद्भगवद्गीता मूलम् - अष्टमोऽध्यायः
IAST Transliteration:

Overview

Chapter 8 of the Bhagavad Gita is highly significant as it elaborates on the concept of the Imperishable Brahman (Akshara Brahman) and the importance of devotion (Bhakti) and remembrance of the Divine at the time of death. Lord Krishna explains the distinction between the material and spiritual realms, the nature of consciousness, and the ultimate destination of the soul. It provides practical guidance for devotees to transcend the cycle of birth and death by cultivating unwavering remembrance of the Supreme Being. The chapter emphasizes that by fixing one's mind on Krishna, one can attain the highest abode. It is considered a distillation of the essence of Vedanta and a guide for spiritual aspirants seeking liberation.

Details

Attribute Information
Deity Krishna
Author Vyasa
Type Chapter
Category Gita
Number of Verses 29
Origin This stotram is the eighth chapter of the Srimad Bhagavad Gita, a foundational scripture in Hinduism. The Bhagavad Gita is a dialogue between Prince Arjuna and Lord Krishna, set on the battlefield of Kurukshetra. It is considered an Upanishad, a part of the epic Mahabharata, and was composed by the Srimant Ved Vyas. The eighth chapter, titled 'Akshara Brahma Yoga' (The Yoga of the Imperishable Brahman), focuses on the nature of Brahman, the ultimate reality, and the path to achieving liberation (moksha) by remembering God at the time of death.

Benefits of Recitation

  1. Understanding of Brahman and its nature
  2. Guidance on devotion and remembrance of God
  3. Knowledge of the path to liberation
  4. Clarity on the cycle of birth and death
  5. Spiritual strength and peace

Best Time to Recite

Daily recitation, especially in the morning or evening. Also beneficial during times of contemplation, meditation, or when seeking spiritual guidance.

Historical Context

The Srimad Bhagavad Gita is believed to have been revealed by Lord Krishna to Arjuna on the battlefield of Kurukshetra, as part of the epic Mahabharata, compiled by the Srimant Ved Vyas. While the exact date of composition is debated, it is considered an ancient and foundational text of Hindu philosophy and spirituality, likely composed several centuries BCE. Chapter 8, 'Akshara Brahma Yoga', is an integral part of this discourse, offering deep insights into the nature of reality and the path to spiritual realization.

Alternate Names

  • Akshara Brahma Yoga
  • The Yoga of the Imperishable Brahman

Related Stotrams

  • Srimad Bhagawad Gita Chapter 1
  • Srimad Bhagawad Gita Chapter 15
  • Vishnu Sahasranama

Last Updated: 2025-12-01