Upadesha Saram (Ramana Maharshi)
Upadesha Saram (Ramana Maharshi)
उपदेश सारं (रमण महर्षि)
श्लोक 1
कर्तुराज्ञया प्राप्यते फलम् ।
कर्म किं परं कर्म तज्जडम्
श्लोक 2
कृतिमहोदधौ पतनकारणम् ।
फलमशाश्वतं गतिनिरोधकम्
॥ 1 ॥
श्लोक 3
ईश्वरार्पितं नेच्छया कृतम् ।
चित्तशोधकं मुक्तिसाधकम्
॥ 2 ॥
श्लोक 4
कायवाङ्मनः कार्यमुत्तमम् ।
पूजनं जपश्चिन्तनं क्रमात्
॥ 3 ॥
श्लोक 5
जगत ईशधी युक्तसेवनम् ।
अष्टमूर्तिभृद्देवपूजनम्
॥ 4 ॥
श्लोक 6
उत्तमस्तवादुच्चमन्दतः ।
चित्तजं जपध्यानमुत्तमम्
॥ 5 ॥
श्लोक 7
आज्यधारया स्रोतसा समम् ।
सरलचिन्तनं विरलतः परम्
॥ 6 ॥
श्लोक 8
भेदभावनात् सोऽहमित्यसौ ।
भावनाऽभिदा पावनी मता
॥ 7 ॥
श्लोक 9
भावशून्यसद्भावसुस्थितिः ।
भावनाबलाद्भक्तिरुत्तमा
॥ 8 ॥
श्लोक 10
हृत्स्थले मनः स्वस्थता क्रिया ।
भक्तियोगबोधाश्च निश्चितम्
॥ 9 ॥
श्लोक 11
वायुरोधनाल्लीयते मनः ।
जालपक्षिवद्रोधसाधनम्
॥ 10 ॥
श्लोक 12
चित्तवायवश्चित्क्रियायुताः ।
शाखयोर्द्वयी शक्तिमूलका
॥ 11 ॥
श्लोक 13
लयविनाशने उभयरोधने ।
लयगतं पुनर्भवति नो मृतम्
॥ 12 ॥
श्लोक 14
प्राणबन्धनाल्लीनमानसम् ।
एकचिन्तनान्नाशमेत्यदः
॥ 13 ॥
श्लोक 15
नष्टमानसोत्कृष्टयोगिनः ।
कृत्यमस्ति किं स्वस्थितिं यतः
॥ 14 ॥
श्लोक 16
दृश्यवारितं चित्तमात्मनः ।
चित्त्वदर्शनं तत्त्वदर्शनम्
॥ 15 ॥
श्लोक 17
मानसं तु किं मार्गणे कृते ।
नैव मानसं मार्ग आर्जवात्
॥ 16 ॥
श्लोक 18
वृत्तयस्त्वहं वृत्तिमाश्रिताः ।
वृत्तयो मनो विद्ध्यहं मनः
॥ 17 ॥
श्लोक 19
अहमयं कुतो भवति चिन्वतः ।
अयि पतत्यहं निजविचारणम्
॥ 18 ॥
श्लोक 20
अहमि नाशभाज्यहमहन्तया ।
स्फुरति हृत्स्वयं परमपूर्णसत्
॥ 19 ॥
श्लोक 21
इदमहं पदाऽभिख्यमन्वहम् ।
अहमिलीनकेऽप्यलयसत्तया
॥ 20 ॥
श्लोक 22
विग्रहेन्द्रियप्राणधीतमः ।
नाहमेकसत्तज्जडं ह्यसत्
॥ 21 ॥
श्लोक 23
सत्त्वभासिका चित्क्ववेतरा ।
सत्तया हि चिच्चित्तया ह्यहम्
॥ 22 ॥
श्लोक 24
ईशजीवयोर्वेषधीभिदा ।
सत्स्वभावतो वस्तु केवलम्
॥ 23 ॥
श्लोक 25
वेषहानतः स्वात्मदर्शनम् ।
ईशदर्शनं स्वात्मरूपतः
॥ 24 ॥
श्लोक 26
आत्मसंस्थितिः स्वात्मदर्शनम् ।
आत्मनिर्द्वयादात्मनिष्ठता
॥ 25 ॥
श्लोक 27
ज्ञानवर्जिताऽज्ञानहीनचित् ।
ज्ञानमस्ति किं ज्ञातुमन्तरम्
॥ 26 ॥
श्लोक 28
किं स्वरूपमित्यात्मदर्शने ।
अव्ययाऽभवाऽऽपूर्णचित्सुखम्
॥ 27 ॥
श्लोक 29
बन्धमुक्त्यतीतं परं सुखम् ।
विन्दतीह जीवस्तु दैविकः
॥ 28 ॥
श्लोक 30
अहमपेतकं निजविभानकम् ।
महदिदन्तपो रमनवागियम्
॥ 29 ॥
