Stotram - Sacred Scripture

Rachayema Samskrita Bhavanam (Grame Nagare Samasta Rashtre)

Rachayema Samskrita Bhavanam (Grame Nagare Samasta Rashtre)

Stotram
Rama
4 Verses
110%

रचयेम संस्कृतभवनं (ग्रामे नगरे समस्तराष्ट्रे)

श्लोक 1

ग्रामे नगरे समस्तराष्ट्रे

रचयेम संस्कृतभवनं

इष्टिकां विना मृत्तिकां विना

केवलसम्भाषणविधया

संस्कृतसम्भाषणकलया ॥

शिशुबालानां स्मितमृदुवचने

युवयुवतीनां मञ्जुभाषणे

वृद्धगुरूणां वत्सलहृदये

रचयेम संस्कृतभवनम्

श्लोक 2

अरुणोदयतः सुप्रभातं

शुभरात्रिं निशि संवदेम

दिवानिशं संस्कृतवचनेन

रचयेम संस्कृतभवनम्

॥ 1 ॥

श्लोक 3

सोदर-सोदरी-भाव-बन्धुरं

मातृप्रेमतो बहुजनरुचिरं

वचनललितं श्रवणमधुरं

रचयेम संस्कृतभवनम्

॥ 2 ॥

श्लोक 4

मूलशिला सम्भाषणमस्य

हिन्दुजनैक्यं शिखरमुन्नतं

सोपानं श्रवणादिविधानं

रचयेम संस्कृतभवनम्

॥ 3 ॥

श्लोक 5

रचन: गु. गणपय्यहोल्लः