Stotram - Sacred Scripture

Yajnopavita Dharana

Yajnopavita Dharana

Stotram
Unknown
0 Verses
110%

यज्ञ्नोपवीत धारण

श्लोक 1

"गायन्तं त्रायते इति गायत्री"ॐ भूर्भुव॒स्सुवः॑ ॥ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥1। शरीर शुद्धिश्लो॥ अपवित्रः पवित्रो वा सर्वावस्थां᳚ गतोऽपिवा ।यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरश्शुचिः ॥2। आचमनम्ॐ आचम्य । ॐ केशवाय स्वाहा । ॐ नारायणाय स्वाहा । ॐ माधवाय स्वाहा । ॐ गोविन्दाय नमः । ॐ विष्णवे नमः । ॐ मधुसूदनाय नमः । ॐ त्रिविक्रमाय नमः । ॐ वामनाय नमः । ॐ श्रीधराय नमः । ॐ हृषीकेशाय नमः । ॐ पद्मनाभाय नमः । ॐ दामोदराय नमः । ॐ सङ्कर्षणाय नमः । ॐ वासुदेवाय नमः । ॐ प्रद्युम्नाय नमः । ॐ अनिरुद्धाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः । ॐ नारसिंहाय नमः । ॐ अच्युताय नमः । ॐ जनार्धनाय नमः । ॐ उपेन्द्राय नमः । ॐ हरये नमः । ॐ श्रीकृष्णाय नमः । ॐ श्रीकृष्ण परब्रह्मणे नमो नमः ।3। भूतोच्चाटनउत्तिष्ठन्तु । भूत पिशाचाः । ये ते भूमिभारकाः । ये तेषामविरोधेन । ब्रह्मकर्म समारभे । ॐ भूर्भुवस्सुवः ।4। प्राणायामम्ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् ।ॐ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥ (तै. अर. 10-27) 5। सङ्कल्पम्ममोपात्त, दुरितक्षयद्वारा, श्री परमेश्वर प्रीत्यर्थं, शुभे, शोभनेमुहूर्ते, महाविष्णोराज्ञया, प्रवर्तमानस्य अद्यब्रह्मणः द्वितीयपरार्थे, श्वेतवराहकल्पे, वैवश्वतमन्वन्तरे, कलियुगे, प्रथमपादे, जम्भूद्वीपे, भरतवर्षे, भरतखण्डे, अस्मिन् वर्तमान व्यावहारिक चान्द्रमानेन ------- संवत्सरे ------ अयने ------- ऋतौ ------- मासे ------- पक्षे ------- तिधौ ------ वासरे -------- शुभनक्षत्रे (भारत देशः - जम्बू द्वीपे, भरत वर्षे, भरत खण्डे, मेरोः दक्षिण/उत्तर दिग्भागे; अमेरिका - क्रौञ्च द्वीपे, रमणक वर्षे, ऐन्द्रिक खण्डे, सप्त समुद्रान्तरे, कपिलारण्ये) शुभयोगे शुभकरण एवङ्गुण विशेषण विशिष्ठायां शुभतिथौ श्रीमान् -------- गोत्रस्य ------- नामधेयस्य (विवाहितानाम् - धर्मपत्नी समेतस्य) श्रीमतः गोत्रस्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेस्वर प्रीत्यर्धं मम सकल श्रौतस्मार्त नित्यकर्मानुष्ठान योग्यताफलसिध्यर्धं नूतन यज्ञोपवीतधारणं करिष्ये ।6। यज्ञोपवीत धारणयज्ञोपवीत प्राण प्रतिष्ठापनं करिष्ये।श्लो॥ ॐ असुनीते पुनरस्मासु चक्षुः पुनःप्राणमिह नो धेहि भोगम् । ज्योक्पश्येम सूर्यमुच्चरं तमनुमते मृडया नः स्स्वस्ति ॥ ऋ.वे. - 10.59.6 अमृतं वै प्राणा अमृतमापः प्राणानेव यथास्थानमुपह्वयते ।7। यज्ञोपवीत मन्त्रम्श्लो॥ यज्ञोपवीते तस्य मन्त्रस्य परमेष्टि परब्रह्मर्षिः ।परमात्म देवता, देवी गायत्रीच्छन्दः ।यज्ञोपवीत धारणे विनियोगः ॥8। यज्ञोपवीत धारण मन्त्रम्श्लो॥ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥9। जीर्ण यज्ञोपवीत विसर्जनश्लो॥ उपवीतं छिन्नतन्तुं जीर्णं कश्मलदूषितंविसृजामि यशो ब्रह्मवर्चो दीर्घायुरस्तु मे ॥ॐ शान्ति शान्ति शान्तिःचतुस्सागर पर्यन्तं गो ब्राह्मणेभ्यः शुभं भवतु ।---------- प्रवरान्वित --------- गोत्रोत्पन्न --------- शर्म --------- अहं भो अभिवादये ।समर्पणयस्य स्मृत्या च नामोक्त्या तपस्सन्ध्या क्रियादिषुन्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् । मन्त्रहीनं क्रियाहीनं भक्तिहीनं रमापतेयत्कृतं तु मया देव परिपूर्णं तदस्तु मे ॥अनेन यज्ञोपवीत धारणेन, श्री लक्ष्मीनारायण प्रेरणाय, श्री लक्ष्मीनारायण प्रीयन्तां वरदो भवतु । श्री कृष्णार्पणमस्तु ॥कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्या‌உत्मना वा प्रकृते स्स्वभावात् ।करोमि यद्यत्सकलं परस्मै श्रीमन्नारायणायेति समर्पयामि ॥