Stotram - Sacred Scripture

Sudarshana Shatkam

Sudarshana Shatkam

Stotram
Unknown
7 Verses
110%

सुदर्शन षट्कम्

श्लोक 1

सहस्रादित्यसङ्काशं सहस्रवदनं परम् ।

सहस्रदोस्सहस्रारं प्रपद्येऽहं सुदर्शनम्

श्लोक 2

हसन्तं हारकेयूर मकुटाङ्गदभूषणैः ।

शोभनैर्भूषिततनुं प्रपद्येऽहं सुदर्शनम्

॥ 1 ॥

श्लोक 3

स्राकारसहितं मन्त्रं वदनं शत्रुनिग्रहम् ।

सर्वरोगप्रशमनं प्रपद्येऽहं सुदर्शनम्

॥ 2 ॥

श्लोक 4

रणत्किङ्किणिजालेन राक्षसघ्नं महाद्भुतम् ।

व्युप्तकेशं विरूपाक्षं प्रपद्येऽहं सुदर्शनम्

॥ 3 ॥

श्लोक 5

हुङ्कारभैरवं भीमं प्रणातार्तिहरं प्रभुम् ।

सर्वपापप्रशमनं प्रपद्येऽहं सुदर्शनम्

॥ 4 ॥

श्लोक 6

फट्कारास्तमनिर्देश्य दिव्यमन्त्रेणसंयुतम् ।

शिवं प्रसन्नवदनं प्रपद्येऽहं सुदर्शनम्

॥ 5 ॥

श्लोक 7

एतैष्षड्भिः स्तुतो देवः प्रसन्नः श्रीसुदर्शनः ।

रक्षां करोति सर्वात्मा सर्वत्र विजयी भवेत्

॥ 6 ॥

श्लोक 8

सुदर्शन षट्कम् | (Sudarshana Shatkam) Lyrics | Vedic Tithi