Stotram - Sacred Scripture

Subrahmanya Bhujanga Prayata Stotram

Subrahmanya Bhujanga Prayata Stotram

Stotram
Unknown
24 Verses
110%

सुब्रह्मण्य भुजङ्ग प्रयात स्तोत्रम्

श्लोक 1

भजेऽहं कुमारं भवानीकुमारं

गलोल्लासिहारं नमत्सद्विहारम् ।

रिपुस्तोमपारं नृसिंहावतारं

सदानिर्विकारं गुहं निर्विचारम्

श्लोक 2

नमामीशपुत्रं जपाशोणगात्रं

सुरारातिशत्रुं रवीन्द्वग्निनेत्रम् ।

महाबर्हिपत्रं शिवास्याब्जमित्रं

प्रभास्वत्कलत्रं पुराणं पवित्रम्

॥ 1 ॥

श्लोक 3

अनेकार्ककोटि-प्रभावज्ज्वलं तं

मनोहारि माणिक्य भूषोज्ज्वलं तम् ।

श्रितानामभीष्टं निशान्तं नितान्तं

भजे षण्मुखं तं शरच्चन्द्रकान्तम्

॥ 2 ॥

श्लोक 4

कृपावारि कल्लोलभास्वत्कटाक्षं

विराजन्मनोहारि शोणाम्बुजाक्षम् ।

प्रयोगप्रदानप्रवाहैकदक्षं

भजे कान्तिकान्तं परस्तोमरक्षम्

॥ 3 ॥

श्लोक 5

सुकस्तूरिसिन्दूरभास्वल्ललाटं

दयापूर्णचित्तं महादेवपुत्रम् ।

रवीन्दूल्लसद्रत्नराजत्किरीटं

भजे क्रीडिताकाश गङ्गाद्रिकूटम्

॥ 4 ॥

श्लोक 6

सुकुन्दप्रसूनावलीशोभिताङ्गं

शरत्पूर्णचन्द्रप्रभाकान्तिकान्तम् ।

शिरीषप्रसूनाभिरामं भवन्तं

भजे देवसेनापतिं वल्लभं तम्

॥ 5 ॥

श्लोक 7

सुलावण्यसत्सूर्यकोटिप्रतीकं

प्रभुं तारकारिं द्विषड्बाहुमीशम् ।

निजाङ्कप्रभादिव्यमानापदीशं

भजे पार्वतीप्राणपुत्रं सुकेशम्

॥ 6 ॥

श्लोक 8

अजं सर्वलोकप्रियं लोकनाथं

गुहं शूरपद्मादिदम्भोलिधारम् ।

सुचारुं सुनासापुटं सच्चरित्रं

भजे कार्तिकेयं सदा बाहुलेयम्

॥ 7 ॥

श्लोक 9

शरारण्यसम्भूतमिन्द्रादिवन्द्यं

द्विषड्बाहुसङ्ख्यायुधश्रेणिरम्यम् ।

मरुत्सारथिं कुक्कुटेशं सुकेतुं

भजे योगिहृत्पद्ममध्याधिवासम्

॥ 8 ॥

श्लोक 10

विरिञ्चीन्द्रवल्लीश देवेशमुख्यं

प्रशस्तामरस्तोमसंस्तूयमानम् ।

दिश त्वं दयालो श्रियं निश्चलां मे

विना त्वां गतिः का प्रभो मे प्रसीद

॥ 9 ॥

श्लोक 11

पदाम्भोजसेवा समायातबृन्दा-

रकश्रेणिकोटीरभास्वल्ललाटम् ।

कलत्रोल्लसत्पार्श्वयुग्मं वरेण्यं

भजे देवमाद्यन्तहीनप्रभावम्

॥ 10 ॥

श्लोक 12

भवाम्भोधिमध्ये तरङ्गे पतन्तं

प्रभो मां सदा पूर्णदृष्ट्या समीक्ष्य ।

भवद्भक्तिनावोद्धर त्वं दयालो

सुगत्यन्तरं नास्ति देव प्रसीद

॥ 11 ॥

श्लोक 13

गले रत्नभूषं तनौ मञ्जुवेषं

करे ज्ञानशक्तिं दरस्मेरमास्ये ।

कटिन्यस्तपाणिं शिखिस्थं कुमारं

भजेऽहं गुहादन्यदेवं न मन्ये

॥ 12 ॥

श्लोक 14

दयाहीनचित्तं परद्रोहपात्रं

सदा पापशीलं गुरोर्भक्तिहीनम् ।

अनन्यावलम्बं भवन्नेत्रपात्रं

कृपाशील मां भो पवित्रं कुरु त्वम्

॥ 13 ॥

श्लोक 15

महासेन गाङ्गेय वल्लीसहाय

प्रभो तारकारे षडास्यामरेश ।

सदा पायसान्नप्रदातर्गुहेति

स्मरिष्यामि भक्त्या सदाहं विभो त्वाम्

॥ 14 ॥

श्लोक 16

प्रतापस्य बाहो नमद्वीरबाहो

प्रभो कार्तिकेयेष्टकामप्रदेति ।

यदा ये पठन्ते भवन्तं तदेवं

प्रसन्नस्तु तेषां बहुश्रीं ददासि

॥ 15 ॥

श्लोक 17

अपारातिदारिद्र्यवाराशिमध्ये

भ्रमन्तं जनग्राहपूर्णे नितान्तम् ।

महासेन मामुद्धर त्वं कटाक्षा-

वलोकेन किञ्चित्प्रसीद प्रसीद

॥ 16 ॥

श्लोक 18

स्थिरां देहि भक्तिं भवत्पादपद्मे

श्रियं निश्चलां देहि मह्यं कुमार ।

गुहं चन्द्रतारं सुवंशाभिवृद्धिं

कुरु त्वं प्रभो मे मनः कल्पसालः

॥ 17 ॥

श्लोक 19

नमस्ते नमस्ते महाशक्तिपाणे

नमस्ते नमस्ते लसद्वज्रपाणे ।

नमस्ते नमस्ते कटिन्यस्तपाणे

नमस्ते नमस्ते सदाभीष्टपाणे

॥ 18 ॥

श्लोक 20

नमस्ते नमस्ते महाशक्तिधारिन्

नमस्ते सुराणां महासौख्यदायिन् ।

नमस्ते सदा कुक्कुटेशाख्यक त्वं

समस्तापराधं विभो मे क्षमस्व

॥ 19 ॥

श्लोक 21

कुमारात्परं कर्मयोगं न जाने

कुमारात्परं कर्मशीलं न जाने ।

य एको मुनीनां हृदब्जाधिवासः

शिवाङ्कं समारुह्य सत्पीठकल्पम्

॥ 20 ॥

श्लोक 22

विरिञ्चाय मन्त्रोपदेशं चकार

प्रमोदेन सोऽयं तनोतु श्रियं मे ।

यमाहुः परं वेद शूरेषु मुख्यं

सदा यस्य शक्त्या जगत्भीतभीता

॥ 21 ॥

श्लोक 23

यमाश्रित्य देवाः स्थिरं स्वर्गपालाः

सदोङ्काररूपं चिदानन्दमीडे ।

गुहस्तोत्रमेतत् कृतं तारकारे

भुजङ्गप्रयातेन हृद्येन कान्तम्

॥ 22 ॥

श्लोक 24

जना ये पठन्ते महाभक्तियुक्ताः

प्रमोदेन सायं प्रभाते विशेषः ।

न जन्मर्क्षयोगे यदा ते रुदान्ता

मनोवाञ्छितान् सर्वकामान् लभन्ते

॥ 23 ॥

श्लोक 25

इति श्री सुब्रह्मण्य भुजङ्ग प्रयात स्तोत्रम् ।

सुब्रह्मण्य भुजङ्ग प्रयात स्तोत्रम् | (Subrahmanya Bhujanga Prayata Stotram) Lyrics | Vedic Tithi