Stotram - Sacred Scripture

Sri Venkateswara Vajra Kavacha Stotram

Sri Venkateswara Vajra Kavacha Stotram

Stotram
Unknown
5 Verses
110%

श्री वेङ्कटेश्वर वज्र कवच स्तोत्रम्

श्लोक 1

मार्कण्डेय उवाच ।

नारायणं परब्रह्म सर्व-कारण-कारणम् ।

प्रपद्ये वेङ्कटेशाख्यं तदेव कवचं मम

श्लोक 2

सहस्र-शीर्षा पुरुषो वेङ्कटेश-श्शिरोऽवतु ।

प्राणेशः प्राण-निलयः प्राणान् रक्षतु मे हरिः

॥ 1 ॥

श्लोक 3

आकाशरा-ट्सुतानाथ आत्मानं मे सदावतु ।

देवदेवोत्तमो पायाद्देहं मे वेङ्कटेश्वरः

॥ 2 ॥

श्लोक 4

सर्वत्र सर्वकालेषु मङ्गाम्बाजा-निरीश्वरः ।

पालयेन्मां सदा कर्म-साफल्यं नः प्रयच्छतु

॥ 3 ॥

श्लोक 5

य एत-द्वज्रकवच-मभेद्यं वेङ्कटेशितुः ।

सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः

॥ 4 ॥

श्लोक 6

इति मार्कण्डेय-कृतं श्री वेङ्कटेश्वर वज्रकवच-स्तोत्रं सम्पूर्णम् ॥

श्री वेङ्कटेश्वर वज्र कवच स्तोत्रम् | (Sri Venkateswara Vajra Kavacha Stotram) Lyrics | Vedic Tithi