Sri Venkatesha Mangalasasanam
Sri Venkatesha Mangalasasanam
श्री वेङ्कटेश मङ्गलाशासनम्
श्लोक 1
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कट निवासाय श्रीनिवासाय मङ्गलम्
श्लोक 2
लक्ष्मी सविभ्रमालोक सुभ्रू विभ्रम चक्षुषे ।
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम्
॥ 1 ॥
श्लोक 3
श्रीवेङ्कटाद्रि शृङ्गाग्र मङ्गलाभरणाङ्घ्रये ।
मङ्गलानां निवासाय श्रीनिवासाय मङ्गलम्
॥ 2 ॥
श्लोक 4
सर्वावयव सौन्दर्य सम्पदा सर्वचेतसाम् ।
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम्
॥ 3 ॥
श्लोक 5
नित्याय निरवद्याय सत्यानन्द चिदात्मने ।
सर्वान्तरात्मने श्रीमद्-वेङ्कटेशाय मङ्गलम्
॥ 4 ॥
श्लोक 6
स्वत स्सर्वविदे सर्व शक्तये सर्वशेषिणे ।
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम्
॥ 5 ॥
श्लोक 7
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने ।
प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम्
॥ 6 ॥
श्लोक 8
आकालतत्त्व मश्रान्त मात्मना मनुपश्यताम् ।
अतृप्त्यमृत रूपाय वेङ्कटेशाय मङ्गलम्
॥ 7 ॥
श्लोक 9
प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना ।
कृपयाऽऽदिशते श्रीमद्-वेङ्कटेशाय मङ्गलम्
॥ 8 ॥
श्लोक 10
दयाऽमृत तरङ्गिण्या स्तरङ्गैरिव शीतलैः ।
अपाङ्गै स्सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम्
॥ 9 ॥
श्लोक 11
स्रग्-भूषाम्बर हेतीनां सुषमाऽऽवहमूर्तये ।
सर्वार्ति शमनायास्तु वेङ्कटेशाय मङ्गलम्
॥ 10 ॥
श्लोक 12
श्रीवैकुण्ठ विरक्ताय स्वामि पुष्करिणीतटे ।
रमया रममाणाय वेङ्कटेशाय मङ्गलम्
॥ 11 ॥
श्लोक 13
श्रीमत्-सुन्दरजा मातृमुनि मानसवासिने ।
सर्वलोक निवासाय श्रीनिवासाय मङ्गलम्
॥ 12 ॥
श्लोक 14
मङ्गला शासनपरैर्-मदाचार्य पुरोगमैः ।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम्
॥ 13 ॥
श्लोक 15
श्री पद्मावती समेत श्री श्रीनिवास परब्रह्मणे नमः
