Sri Subrahmanya Mangalashtakam
Sri Subrahmanya Mangalashtakam
श्री सुब्रह्मण्य मङ्गलाष्टकम्
श्लोक 1
शिवयोस्तनुजायास्तु श्रितमन्दारशाखिने ।
शिखिवर्यतुरङ्गाय सुब्रह्मण्याय मङ्गलम्
श्लोक 2
भक्ताभीष्टप्रदायास्तु भवरोगविनाशिने ।
राजराजादिवन्द्याय रणधीराय मङ्गलम्
॥ 1 ॥
श्लोक 3
शूरपद्मादिदैतेयतमिस्रकुलभानवे ।
तारकासुरकालाय बालकायास्तु मङ्गलम्
॥ 2 ॥
श्लोक 4
वल्लीवदनराजीव मधुपाय महात्मने ।
उल्लसन्मणिकोटीरभासुरायास्तु मङ्गलम्
॥ 3 ॥
श्लोक 5
कन्दर्पकोटिलावण्यनिधये कामदायिने ।
कुलिशायुधहस्ताय कुमारायास्तु मङ्गलम्
॥ 4 ॥
श्लोक 6
मुक्ताहारलसत्कण्ठराजये मुक्तिदायिने ।
देवसेनासमेताय दैवतायास्तु मङ्गलम्
॥ 5 ॥
श्लोक 7
कनकाम्बरसंशोभिकटये कलिहारिणे ।
कमलापतिवन्द्याय कार्तिकेयाय मङ्गलम्
॥ 6 ॥
श्लोक 8
शरकाननजाताय शूराय शुभदायिने ।
शीतभानुसमास्याय शरण्यायास्तु मङ्गलम्
॥ 7 ॥
श्लोक 9
मङ्गलाष्टकमेतद्ये महासेनस्य मानवाः ।
पठन्ती प्रत्यहं भक्त्या प्राप्नुयुस्ते परां श्रियम्
॥ 8 ॥
श्लोक 10
इति श्री सुब्रह्मण्य मङ्गलाष्टकम् ।
