Stotram - Sacred Scripture

Sri Shashti Devi Stotram

Sri Shashti Devi Stotram

Stotram
Unknown
18 Verses
110%

श्री षष्ठी देवी स्तोत्रम्

श्लोक 1

ध्यानम्

श्रीमन्मातरमम्बिकां विधिमनोजातां सदाभीष्टदां

स्कन्देष्टां च जगत्प्रसूं विजयदां सत्पुत्र सौभाग्यदाम् ।

सद्रत्नाभरणान्वितां सकरुणां शुभ्रां शुभां सुप्रभां

षष्ठांशां प्रकृतेः परं भगवतीं श्रीदेवसेनां भजे

श्लोक 2

षष्ठांशां प्रकृतेः शुद्धां सुप्रतिष्ठां च सुव्रतां

सुपुत्रदां च शुभदां दयारूपां जगत्प्रसूम् ।

श्वेतचम्पकवर्णाभां रक्तभूषणभूषितां

पवित्ररूपां परमं देवसेना परां भजे

॥ 1 ॥

श्लोक 3

स्तोत्रम्

नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ।

शुभायै देवसेनायै षष्ठीदेव्यै नमो नमः

॥ 2 ॥

श्लोक 4

वरदायै पुत्रदायै धनदायै नमो नमः ।

सुखदायै मोक्षदायै षष्ठीदेव्यै नमो नमः

॥ 1 ॥

श्लोक 5

सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः ।

मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः

॥ 2 ॥

श्लोक 6

सारायै शारदायै च परादेव्यै नमो नमः ।

बालाधिष्टातृदेव्यै च षष्ठीदेव्यै नमो नमः

॥ 3 ॥

श्लोक 7

कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ।

प्रत्यक्षायै सर्वभक्तानां षष्ठीदेव्यै नमो नमः

॥ 4 ॥

श्लोक 8

पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु ।

देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः

॥ 5 ॥

श्लोक 9

शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा ।

हिंसाक्रोधवर्जितायै षष्ठीदेव्यै नमो नमः

॥ 6 ॥

श्लोक 10

धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ।

मानं देहि जयं देहि द्विषो जहि महेश्वरि

॥ 7 ॥

श्लोक 11

धर्मं देहि यशो देहि षष्ठीदेवी नमो नमः ।

देहि भूमिं प्रजां देहि विद्यां देहि सुपूजिते ।

कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः

॥ 8 ॥

श्लोक 12

फलशृति

इति देवीं च संस्तुत्य लभेत्पुत्रं प्रियव्रतम् ।

यशश्विनं च राजेन्द्रं षष्ठीदेवि प्रसादतः

॥ 9 ॥

श्लोक 13

षष्ठीस्तोत्रमिदं ब्रह्मान् यः शृणोति तु वत्सरम् ।

अपुत्रो लभते पुत्रं वरं सुचिर जीवनम्

॥ 10 ॥

श्लोक 14

वर्षमेकं च या भक्त्या संस्तुत्येदं शृणोति च ।

सर्वपापाद्विनिर्मुक्ता महावन्ध्या प्रसूयते

॥ 11 ॥

श्लोक 15

वीरं पुत्रं च गुणिनं विद्यावन्तं यशस्विनम् ।

सुचिरायुष्यवन्तं च सूते देवि प्रसादतः

॥ 12 ॥

श्लोक 16

काकवन्ध्या च या नारी मृतवत्सा च या भवेत् ।

वर्षं शृत्वा लभेत्पुत्रं षष्ठीदेवि प्रसादतः

॥ 13 ॥

श्लोक 17

रोगयुक्ते च बाले च पितामाता शृणोति चेत् ।

मासेन मुच्यते रोगान् षष्ठीदेवि प्रसादतः

॥ 14 ॥

श्लोक 18

जय देवि जगन्मातः जगदानन्दकारिणि ।

प्रसीद मम कल्याणि नमस्ते षष्ठीदेवते

॥ 15 ॥

श्लोक 19

इति श्री षष्ठीदेवि स्तोत्रम् ।

श्री षष्ठी देवी स्तोत्रम् | (Sri Shashti Devi Stotram) Lyrics | Vedic Tithi