Stotram - Sacred Scripture

Sri Sankaracharya Varyam

Sri Sankaracharya Varyam

Stotram
Unknown
6 Verses
110%

श्री शङ्कराचार्य वर्यम्

श्लोक 1

॥ श्रीशङ्कराचार्यस्तवः ॥

श्रीशङ्कराचार्यवर्यं सर्वलोकैकवन्द्यं भजे देशिकेन्द्रम्

धर्मप्रचारेऽतिदक्षं योगिगोविन्दपादाप्तसन्यासदीक्षम् ।

दुर्वादिगर्वापनोदं पद्मपादादिशिष्यालिसंसेव्यपादम्

श्लोक 2

(श्रीशङ्कराचार्यवर्यं)

शङ्काद्रिदम्भोलिलीलं किङ्कराशेषशिष्यालि सन्त्राणशीलम् ।

बालार्कनीकाशचेलं बोधिताशेषवेदान्त गूढार्थजालम्

॥1॥

श्लोक 3

(श्रीशङ्कराचार्यवर्यं)

रुद्राक्षमालाविभूषं चन्द्रमौलीश्वराराधनावाप्ततोषम् ।

विद्राविताशेषदोषं भद्रपूगप्रदं भक्तलोकस्य नित्यम्

॥2॥

श्लोक 4

(श्रीशङ्कराचार्यवर्यं)

पापाटवीचित्रभानुं ज्ञानदीपेन हार्दं तमो वारयन्तम् ।

द्वैपायनप्रीतिभाजं सर्वतापापहामोघबोधप्रदं तम्

॥3॥

श्लोक 5

(श्रीशङ्कराचार्यवर्यं)

राजाधिराजाभिपूज्यं रम्यशृङ्गाद्रिवासैकलोलं यतीड्यम् ।

राकेन्दुसङ्काशवक्त्रं रत्नगर्भेभवक्त्राङ्घ्रिपूजानुरक्तम्

॥4॥

श्लोक 6

(श्रीशङ्कराचार्यवर्यं)

श्रीभारतीतीर्थगीतं शङ्करार्यस्तवं यः पठेद्भक्तियुक्तः ।

सोऽवाप्नुयात्सर्वमिष्टं शङ्कराचार्यवर्यप्रसादेन तूर्णम्

॥5॥

श्लोक 7

(श्रीशङ्कराचार्यवर्यं)

श्री शङ्कराचार्य वर्यम् | (Sri Sankaracharya Varyam) Lyrics | Vedic Tithi