Stotram - Sacred Scripture

Sri Manasa Devi Stotram (Mahendra Kritam)

Sri Manasa Devi Stotram (Mahendra Kritam)

Stotram
Unknown
16 Verses
110%

श्री मनसा देवी स्तोत्रम् (महेन्द्र कृतम्)

श्लोक 1

देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां पराम् ।

परात्परां च परमां न हि स्तोतुं क्षमोऽधुना

श्लोक 2

स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् ।

न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते

॥ 1 ॥

श्लोक 3

शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्जिता ।

न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः

॥ 2 ॥

श्लोक 4

त्वं मया पूजिता साध्वी जननी च यथाऽदितिः ।

दयारूपा च भगिनी क्षमारूपा यथा प्रसूः

॥ 3 ॥

श्लोक 5

त्वया मे रक्षिताः प्राणा पुत्रदाराः सुरेश्वरि ।

अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्धते

॥ 4 ॥

श्लोक 6

नित्यं यद्यपि पूज्या त्वं भवेऽत्र जगदम्बिके ।

तथापि तव पूजां वै वर्धयामि पुनः पुनः

॥ 5 ॥

श्लोक 7

ये त्वामाषाढसङ्क्रान्त्यां पूजयिष्यन्ति भक्तितः ।

पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने

॥ 6 ॥

श्लोक 8

पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि च ।

यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः

॥ 7 ॥

श्लोक 9

ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः ।

लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा

॥ 8 ॥

श्लोक 10

त्वं स्वर्गलक्ष्मीः स्वर्गे च वैकुण्ठे कमलाकला ।

नारायणांशो भगवान् जरत्कारुर्मुनीश्वरः

॥ 9 ॥

श्लोक 11

तपसा तेजसा त्वां च मनसा ससृजे पिता ।

अस्माकं रक्षणायैव तेन त्वं मनसाभिधा

॥ 10 ॥

श्लोक 12

मनसा देवि तु शक्ता चात्मना सिद्धयोगिनी ।

तेन त्वं मनसादेवी पूजिता वन्दिता भवे

॥ 11 ॥

श्लोक 13

यां भक्त्या मनसा देवाः पूजयन्त्यनिशं भृशम् ।

तेन त्वां मनसादेवीं प्रवदन्ति पुराविदः

॥ 12 ॥

श्लोक 14

सत्त्वरूपा च देवी त्वं शश्वत्सत्त्वनिषेवया ।

यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम्

॥ 13 ॥

श्लोक 15

इदं स्तोत्रं पुण्यबीजं तां सम्पूज्य च यः पठेत् ।

तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च

॥ 14 ॥

श्लोक 16

विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं यदा पठेत् ।

पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः ।

सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः

॥ 15 ॥

श्लोक 17

इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे षट्चत्वारिंशोऽध्याये महेन्द्र कृत श्री मनसादेवी स्तोत्रम् ॥

आस्तीकमुनि मन्त्रः

सर्पापसर्प भद्रं ते गच्छ सर्प महाविष ।

जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर ॥

श्री मनसा देवी स्तोत्रम् (महेन्द्र कृतम्) | (Sri Manasa Devi Stotram (Mahendra Kritam)) Lyrics | Vedic Tithi