Kavacham - Sacred Scripture

Sri Lalitha Mula Mantra Kavacham

Sri Lalitha Mula Mantra Kavacham

Kavacham
Unknown
7 Verses
110%

श्री ललिता मूल मन्त्र कवचम्

श्लोक 1

अस्य श्रीललिता कवच स्तवरत्न मन्त्रस्य, आनन्दभैरव ऋषिः, अमृतविराट् छन्दः, श्री महात्रिपुरसुन्दरी ललितापराम्बा देवता ऐं बीजं ह्रीं शक्तिः श्रीं कीलकं, मम श्री ललिताम्बा प्रसादसिद्ध्यर्थे श्री ललिता कवचस्तवरत्न मन्त्र जपे विनियोगः ।

करन्यासः ।

ऐं अङ्गुष्ठाभ्यां नमः ।

ह्रीं तर्जनीभ्यां नमः ।

श्रीं मध्यमाभ्यां नमः ।

श्रीं अनामिकाभ्यां नमः ।

ह्रीं कनिष्ठिकाभ्यां नमः ।

ऐं करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।

ऐं हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

श्रीं शिखायै वषट् ।

श्रीं कवचाय हुम् ।

ह्रीं नेत्रत्रयाय वौषट् ।

ऐं अस्त्राय फट् ।

भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् –

श्रीविद्यां परिपूर्णमेरुशिखरे बिन्दुत्रिकोणेस्थितां

वागीशादि समस्तभूतजननीं मञ्चे शिवाकारके ।

कामाक्षीं करुणारसार्णवमयीं कामेश्वराङ्कस्थितां

कान्तां चिन्मयकामकोटिनिलयां श्रीब्रह्मविद्यां भजे

श्लोक 2

लमित्यादि पञ्चपूजां कुर्यात् ।

लं – पृथ्वीतत्त्वात्मिकायै श्रीललितादेव्यै गन्धं समर्पयामि ।

हं – आकाशतत्त्वात्मिकायै श्रीललितादेव्यै पुष्पं समर्पयामि ।

यं – वायुतत्त्वात्मिकायै श्री ललितादेव्यै धूपं समर्पयामि ।

रं – वह्नितत्त्वात्मिकायै श्री ललितादेव्यै दीपं समर्पयामि ।

वं – अमृततत्त्वात्मिकायै श्री ललितादेव्यै अमृतनैवेद्यं समर्पयामि ।

पञ्चपूजां कृत्वा योनिमुद्रां प्रदर्श्य ।

अथ कवचम् ।

ककारः पातु शीर्षं मे एकारः पातु फालकम् ।

ईकारश्चक्षुषी पातु श्रोत्रे रक्षेल्लकारकः

॥ 1 ॥

श्लोक 3

ह्रीङ्कारः पातु नासाग्रं वक्त्रं वाग्भवसञ्ज्ञिकः ।

हकारः पातु कण्ठं मे सकारः स्कन्धदेशकम्

॥ 2 ॥

श्लोक 4

ककारो हृदयं पातु हकारो जठरं तथा ।

लकारो नाभिदेशं तु ह्रीङ्कारः पातु गुह्यकम्

॥ 3 ॥

श्लोक 5

कामकूटः सदा पातु कटिदेशं ममावतु ।

सकारः पातु चोरू मे ककारः पातु जानुनी

॥ 4 ॥

श्लोक 6

लकारः पातु जङ्घे मे ह्रीङ्कारः पातु गुल्फकौ ।

शक्तिकूटं सदा पातु पादौ रक्षतु सर्वदा

॥ 5 ॥

श्लोक 7

मूलमन्त्रकृतं चैतत्कवचं यो जपेन्नरः ।

प्रत्यहं नियतः प्रातस्तस्य लोका वशंवदाः

॥ 6 ॥

श्लोक 8

उत्तरन्यासः ।

करन्यासः –

ऐं अङ्गुष्ठाभ्यां नमः ।

ह्रीं तर्जनीभ्यां नमः ।

श्रीं मध्यमाभ्यां नमः ।

श्रीं अनामिकाभ्यां नमः ।

ह्रीं कनिष्ठिकाभ्यां नमः ।

ऐं करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।

ऐं हृदयाय नमः ।

ह्रीं शिरसे स्वाहा ।

श्रीं शिखायै वषट् ।

श्रीं कवचाय हुम् ।

ह्रीं नेत्रत्रयाय वौषट् ।

ऐं अस्त्राय फट् ।

भूर्भुवस्सुवरोमिति दिग्विमोकः ।

इति ब्रह्मकृत श्री ललिता मूलमन्त्र कवचम् ।