Sri Hari Ashtakam (Prahlada Krutam)
Sri Hari Ashtakam (Prahlada Krutam)
श्री हर्यष्टकम् (प्रह्लाद कृतम्)
श्लोक 1
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावकः
श्लोक 2
स गङ्गा स गया सेतुः स काशी स च पुष्करम् ।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम्
॥ 1 ॥
श्लोक 3
वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च ।
यत्कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम्
॥ 2 ॥
श्लोक 4
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम्
॥ 3 ॥
श्लोक 5
गवां कोटिसहस्राणि हेमकन्यासहस्रकम् ।
दत्तं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम्
॥ 4 ॥
श्लोक 6
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ।
अधीतस्तेन येनोक्तं हरिरित्यक्षरद्वयम्
॥ 5 ॥
श्लोक 7
अश्वमेधैर्महायज्ञैर्नरमेधैस्तथैव च ।
इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम्
॥ 6 ॥
श्लोक 8
प्राणः प्रयाण पाथेयं संसारव्याधिनाशनम् ।
दुःखात्यन्त परित्राणं हरिरित्यक्षरद्वयम्
॥ 7 ॥
श्लोक 9
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ।
सकृदुच्चारितं येन हरिरित्यक्षरद्वयम्
॥ 8 ॥
श्लोक 10
हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
आयुष्यं बलमारोग्यं यशो वृद्धिः श्रियावहम्
॥ 9 ॥
श्लोक 11
प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम् ।
यः पठेत्स नरो याति तद्विष्णोः परमं पदम्
॥ 10 ॥
श्लोक 12
इति प्रह्लादकृत श्री हर्यष्टकम् ।
