Stotram - Sacred Scripture

Sri Ganapathi Mangalashtakam

Sri Ganapathi Mangalashtakam

Stotram
Unknown
9 Verses
110%

श्री गणपति मङ्गलाष्टकम्

श्लोक 1

गजाननाय गाङ्गेयसहजाय सदात्मने ।

गौरीप्रियतनूजाय गणेशायास्तु मङ्गलम्

श्लोक 2

नागयज्ञोपवीताय नतविघ्नविनाशिने ।

नन्द्यादिगणनाथाय नायकायास्तु मङ्गलम्

॥ 1 ॥

श्लोक 3

इभवक्त्राय चेन्द्रादिवन्दिताय चिदात्मने ।

ईशानप्रेमपात्राय चेष्टदायास्तु मङ्गलम्

॥ 2 ॥

श्लोक 4

सुमुखाय सुशुण्डाग्रोक्षिप्तामृतघटाय च ।

सुरबृन्दनिषेव्याय सुखदायास्तु मङ्गलम्

॥ 3 ॥

श्लोक 5

चतुर्भुजाय चन्द्रार्धविलसन्मस्तकाय च ।

चरणावनतानर्थ तारणायास्तु मङ्गलम्

॥ 4 ॥

श्लोक 6

वक्रतुण्डाय वटवे वन्द्याय वरदाय च ।

विरूपाक्षसुतायास्तु विघ्ननाशाय मङ्गलम्

॥ 5 ॥

श्लोक 7

प्रमोदामोदरूपाय सिद्धिविज्ञानरूपिणे ।

प्रकृष्टपापनाशाय फलदायास्तु मङ्गलम्

॥ 6 ॥

श्लोक 8

मङ्गलं गणनाथाय मङ्गलं हरसूनवे ।

मङ्गलं विघ्नराजाय विघ्नहर्त्रेस्तु मङ्गलम्

॥ 7 ॥

श्लोक 9

श्लोकाष्टकमिदं पुण्यं मङ्गलप्रदमादरात् ।

पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये

॥ 8 ॥

श्लोक 10

इति श्री गणपति मङ्गलाष्टकम् ।

श्री गणपति मङ्गलाष्टकम् | (Sri Ganapathi Mangalashtakam) Lyrics | Vedic Tithi