Stotram - Sacred Scripture

Sri Datta Stavam

Sri Datta Stavam

Stotram
Unknown
9 Verses
110%

श्रि दत्त स्तवम्

श्लोक 1

श्री गणेशाय नमः श्री सरस्वत्यै नमः

श्रीपादवल्लभ नरसिंहसरस्वति

श्रीगुरु दत्तात्रेयाय नमः

दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् ।

प्रपन्नार्तिहरं वन्दे स्मर्तृगामि सनोवतु

श्लोक 2

दीनबन्धुं कृपासिन्धुं सर्वकारणकारणम् ।

सर्वरक्षाकरं वन्दे स्मर्तृगामि सनोवतु

॥ 1 ॥

श्लोक 3

शरणागतदीनार्त परित्राणपरायणम् ।

नारायणं विभुं वन्दे स्मर्तृगामि सनोवतु

॥ 2 ॥

श्लोक 4

सर्वानर्थहरं देवं सर्वमङ्गल मङ्गलम् ।

सर्वक्लेशहरं वन्दे स्मर्तृगामि सनोवतु

॥ 3 ॥

श्लोक 5

ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् ।

भक्ताऽभीष्टप्रदं वन्दे स्मर्तृगामि सनोवतु

॥ 4 ॥

श्लोक 6

शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ।

तापप्रशमनं वन्दे स्मर्तृगामि सनोवतु

॥ 5 ॥

श्लोक 7

सर्वरोगप्रशमनं सर्वपीडानिवारणम् ।

विपदुद्धरणं वन्दे स्मर्तृगामि सनोवतु

॥ 6 ॥

श्लोक 8

जन्मसंसारबन्धघ्नं स्वरूपानन्ददायकम् ।

निश्श्रेयसपदं वन्दे स्मर्तृगामि सनोवतु

॥ 7 ॥

श्लोक 9

जय लाभ यशः काम दातुर्दत्तस्य यः स्तवम् ।

भोगमोक्षप्रदस्येमं प्रपठेत् सुकृती भवेत्

॥ 8 ॥

श्लोक 10

श्री गणेशाय नमः श्री सरस्वत्यै नमः

श्रीपादवल्लभ नरसिंहसरस्वति

श्रीगुरु दत्तात्रेयाय नमः