Stotram - Sacred Scripture

Sree Bhu Varaha Stotram

Sree Bhu Varaha Stotram

Stotram
Unknown
12 Verses
110%

श्री भू वराह स्तोत्रम्

श्लोक 1

ऋषय ऊचु ।

जितं जितं तेऽजित यज्ञभावना

त्रयीं तनूं स्वां परिधुन्वते नमः ।

यद्रोमगर्तेषु निलिल्युरध्वराः

तस्मै नमः कारणसूकराय ते

श्लोक 2

रूपं तवैतन्ननु दुष्कृतात्मनां

दुर्दर्शनं देव यदध्वरात्मकम् ।

छन्दांसि यस्य त्वचि बर्हिरोम-

स्स्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम्

॥ 1 ॥

श्लोक 3

स्रुक्तुण्ड आसीत्स्रुव ईश नासयो-

रिडोदरे चमसाः कर्णरन्ध्रे ।

प्राशित्रमास्ये ग्रसने ग्रहास्तु ते

यच्चर्वणन्ते भगवन्नग्निहोत्रम्

॥ 2 ॥

श्लोक 4

दीक्षानुजन्मोपसदः शिरोधरं

त्वं प्रायणीयो दयनीय दंष्ट्रः ।

जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः

सभ्यावसथ्यं चितयोऽसवो हि ते

॥ 3 ॥

श्लोक 5

सोमस्तु रेतः सवनान्यवस्थितिः

संस्थाविभेदास्तव देव धातवः ।

सत्राणि सर्वाणि शरीरसन्धि-

स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः

॥ 4 ॥

श्लोक 6

नमो नमस्तेऽखिलयन्त्रदेवता

द्रव्याय सर्वक्रतवे क्रियात्मने ।

वैराग्य भक्त्यात्मजयाऽनुभावित

ज्ञानाय विद्यागुरवे नमॊ नमः

॥ 5 ॥

श्लोक 7

दंष्ट्राग्रकोट्या भगवंस्त्वया धृता

विराजते भूधर भूस्सभूधरा ।

यथा वनान्निस्सरतो दता धृता

मतङ्गजेन्द्रस्य स पत्रपद्मिनी

॥ 6 ॥

श्लोक 8

त्रयीमयं रूपमिदं च सौकरं

भूमण्डले नाथ तदा धृतेन ते ।

चकास्ति शृङ्गोढघनेन भूयसा

कुलाचलेन्द्रस्य यथैव विभ्रमः

॥ 7 ॥

श्लोक 9

संस्थापयैनां जगतां सतस्थुषां

लोकाय पत्नीमसि मातरं पिता ।

विधेम चास्यै नमसा सह त्वया

यस्यां स्वतेजोऽग्निमिवारणावधाः

॥ 8 ॥

श्लोक 10

कः श्रद्धधीतान्यतमस्तव प्रभो

रसां गताया भुव उद्विबर्हणम् ।

न विस्मयोऽसौ त्वयि विश्वविस्मये

यो माययेदं ससृजेऽति विस्मयम्

॥ 9 ॥

श्लोक 11

विधुन्वता वेदमयं निजं वपु-

र्जनस्तपः सत्यनिवासिनो वयम् ।

सटाशिखोद्धूत शिवाम्बुबिन्दुभि-

र्विमृज्यमाना भृशमीश पाविताः

॥ 10 ॥

श्लोक 12

स वै बत भ्रष्टमतिस्तवैष ते

यः कर्मणां पारमपारकर्मणः ।

यद्योगमाया गुण योग मोहितं

विश्वं समस्तं भगवन् विधेहि शम्

॥ 11 ॥

श्लोक 13

इति श्रीमद्भागवते महापुराणे तृतीयस्कन्धे श्री वराह प्रादुर्भावोनाम त्रयोदशोध्यायः ।