Suktam - Sacred Scripture

Sarpa Suktam

Sarpa Suktam

Suktam
Unknown
2 Verses
110%

सर्प सूक्तम्

श्लोक 1

नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वी मनु॑ ।

ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ । (तै.सं.4.2.3)

ये॑-ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ ।

येषा॑म॒प्सु सदः॑ कृ॒त-न्तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ।

या इष॑वो यातु॒धाना॑नां॒-येँ वा॒ वन॒स्पती॒ग्ं॒‍ रनु॑ ।

ये वा॑-ऽव॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ।

इ॒दग्ं स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टम्᳚ ।

आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ ।

ये अ॒न्तरि॑क्ष-म्पृथि॒वी-ङ्क्षि॒यन्ति॑ ।

ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः ।

ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः ।

ये दिव॑-न्दे॒वीमनु॑स॒न्चर॑न्ति ।

येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ कामम्᳚ ।

तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि

श्लोक 2

नि॒घृष्वै॑रस॒मायु॑तैः ।

कालैर्​हरित्व॑माप॒न्नैः ।

इन्द्राया॑हि स॒हस्र॑युक् ।

अ॒ग्निर्वि॒भ्राष्टि॑वसनः ।

वा॒युश्वेत॑सिकद्रु॒कः ।

सं॒​वँ॒थ्स॒रो वि॑षू॒वर्णैः᳚ ।

नित्या॒स्ते-ऽनुच॑रास्त॒व ।

सुब्रह्मण्योग्ं सुब्रह्मण्योग्ं सु॑ब्रह्मण्योग्म्

॥ 2 ॥

श्लोक 3

ॐ शान्ति-श्शान्ति-श्शान्तिः ॥