Priyam Bharatam
Priyam Bharatam
Stotram
Unknown
4 Verses
110%
प्रियं भारतम्
श्लोक 1
प्रकृत्या सुरम्यं विशालं प्रकामं
सरित्तारहारैः ललामं निकामम् ।
हिमाद्रिर्ललाटे पदे चैव सिन्धुः
प्रियं भारतं सर्वदा दर्शनीयम्
श्लोक 2
धनानां निधानं धरायां प्रधानं
इदं भारतं देवलोकेन तुल्यम् ।
यशो यस्य शुभ्रं विदेशेषु गीतं
प्रियं भारतं तत् सदा पूजनीयम्
॥ 1 ॥
श्लोक 3
अनेके प्रदेशाः अनेके च वेषाः
अनेकानि रुपाणि भाषा अनेकाः ।
परं यत्र सर्वे वयं भारतीयाः
प्रियं भारतं तत् सदा रक्षणीयम्
॥ 2 ॥
श्लोक 4
वयं भारतीयाः स्वदेशं नमामः
परं धर्ममेकं सदा मानयामः ।
तदर्थं धनं जीवनं चार्पयाम
प्रियं भारतं मे सदा वन्दनीयम्
॥ 3 ॥
श्लोक 5
रचन: डा. चन्द्रभानु त्रिपाठी
