Suktam - Sacred Scripture

Pavamana Suktam

Pavamana Suktam

Suktam
Unknown
0 Verses
110%

पवमान सूक्तम्

श्लोक 1

ओम् ॥ हिर॑ण्यवर्णा॒-श्शुच॑यः पाव॒का

यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ ।

अ॒ग्निं-याँ गर्भ॑-न्दधि॒रे विरू॑पा॒स्ता

न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥

यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑

सत्यानृ॒ते अ॑व॒पश्य॒-ञ्जना॑नाम् ।

म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्ता

न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥

यासा᳚-न्दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं

या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।

याः पृ॑थि॒वी-म्पय॑सो॒न्दन्ति शु॒क्रास्ता

न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥

शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑

त॒नुवोप॑ स्पृशत॒ त्वच॑ओ मे ।

सर्वाग्॑ओ अ॒ग्नीग्ं र॑प्सु॒षदो॑ हुवे वो॒ मयि॒

वर्चो॒ बल॒मोजो॒ निध॑त्त ॥

पव॑मान॒स्सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्​षणिः ।

यः पोता॒ स पु॑नातु मा । पु॒नन्तु॑ मा देवज॒नाः ।

पु॒नन्तु॒ मन॑वो धि॒या । पु॒नन्तु॒ विश्व॑ आ॒यवः॑ ।

जात॑वेदः प॒वित्र॑वत् । प॒वित्रे॑ण पुनाहि मा ।

शु॒क्रेण॑ देव॒दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतू॒ग्ं॒ रनु॑ ।

यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । अग्ने॒ वित॑तमन्त॒रा ।

ब्रह्म॒ तेन॑ पुनीमहे । उ॒भाभ्या᳚-न्देवसवितः ।

प॒वित्रे॑ण स॒वेन॑ च । इ॒द-म्ब्रह्म॑ पुनीमहे ।

वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त् ।

यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः ।

तया॒ मद॑न्त-स्सध॒माद्ये॑षु ।

व॒यग्ग् स्या॑म॒ पत॑यो रयी॒णाम् ।

वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु ।

वातः॑ प्रा॒णेने॑षि॒रो म॑यो॒ भूः ।

द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः ।

ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् ॥

बृ॒हद्भिः॑ सवित॒स्तृभिः॑ ।

वर्‍षि॑ष्ठैर्देव॒मन्म॑भिः । अग्ने॒ दक्षैः᳚ पुनाहि मा ।

येन॑ दे॒वा अपु॑नत । येनापो॑ दि॒व्यङ्कशः॑ ।

तेन॑ दि॒व्येन॒ ब्रह्म॑णा । इ॒द-म्ब्रह्म॑ पुनीमहे ।

यः पा॑वमा॒नीर॒द्ध्येति॑ । ऋषि॑भि॒स्सम्भृ॑त॒ग्ं॒ रसम्᳚ ।

सर्व॒ग्ं॒ स पू॒तम॑श्नाति । स्व॒दि॒त-म्मा॑त॒रिश्व॑ना ।

पा॒व॒मा॒नीर्यो अ॒ध्येति॑ । ऋषि॑भि॒स्सम्भृ॑त॒ग्ं॒ रसम्᳚ ।

तस्मै॒ सर॑स्वती दुहे । क्षी॒रग्ं स॒र्पिर्मधू॑द॒कम् ॥

पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः । सु॒दुघा॒हि पय॑स्वतीः ।

ऋषि॑भि॒स्सम्भृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतग्॑ओ हि॒तम् ।

पा॒व॒मा॒नीर्दि॑शन्तु नः । इ॒मं-लोँ॒कमथो॑ अ॒मुम् ।

कामा॒न्‍थ्सम॑र्धयन्तु नः । दे॒वी‍र्दे॒वै-स्स॒माभृ॑ताः ।

पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः । सु॒दुघा॒हि घृ॑त॒श्चुतः॑ ।

ऋषि॑भि॒-स्सम्भृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतग्॑ओ हि॒तम् ।

येन॑ दे॒वाः प॒वित्रे॑ण । आ॒त्मान॑-म्पु॒नते॒ सदा᳚ ।

तेन॑ स॒हस्र॑धारेण । पा॒व॒मा॒न्यः पु॑नन्तु मा ।

प्रा॒जा॒प॒त्य-म्प॒वित्रम्᳚ । श॒तोद्या॑मग्ं हिर॒ण्मयम्᳚ ।

तेन॑ ब्रह्म॒ विदो॑ व॒यम् । पू॒त-म्ब्रह्म॑ पुनीमहे ।

इन्द्र॑स्सुनी॒ती स॒हमा॑ पुनातु । सोम॑स्स्व॒स्त्या व॑रुणस्स॒मीच्या᳚ ।

य॒मो राजा᳚ प्रमृ॒णाभिः॑ पुनातु मा । जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु ।

भूर्भुव॒स्सुवः॑ ॥

ओ-न्तच्छं॒-योँरावृ॑णीमहे । गा॒तुं-यँ॒ज्ञाय॑ । गा॒तुं-यँ॒ज्ञप॑तये ।

दैवी᳚स्स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्व-ञ्जि॑गातु भेष॒जम् ।

शन्नो॑ अस्तु द्वि॒पदे᳚ । श-ञ्चतु॑ष्पदे ॥

ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥