Stotram - Sacred Scripture

Pashupati Ashtakam

Pashupati Ashtakam

Stotram
Unknown
9 Verses
110%

पशुपत्यष्टकम्

श्लोक 1

पशुपतीन्दुपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम् ।

प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम्

श्लोक 2

न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् ।

अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम्

॥1॥

श्लोक 3

मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम् ।

प्रमथभूतगणैरपि सेवितं भजत रे मनुजा गिरिजापतिम्

॥2॥

श्लोक 4

शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम् ।

अभयदं करुणावरुणालयं भजत रे मनुजा गिरिजापतिम्

॥3॥

श्लोक 5

नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम् ।

चितिरजोधवलीकृतविग्रहं भजत रे  मनुजा गिरिजापतिम्

॥4॥

श्लोक 6

मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम् ।

प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम्

॥5॥

श्लोक 7

मदमपास्य चिरं हृदि संस्थितं मरणजन्मजरामयपीडितम् ।

जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम्

॥6॥

श्लोक 8

हरिविरञ्चिसुराधिपपूजितं यमजनेशधनेशनमस्कॄतम् ।

त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम्

॥7॥

श्लोक 9

पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपतिसूरिणा ।

पठति संश‍ऋणुते मनुजः सदा शिवपुरीं वसते लभते मुदम्

॥8॥

श्लोक 10

इति श्रीपशुपत्यष्टकं सम्पूर्णम् ॥