Panchamruta Snanam
Panchamruta Snanam
पञ्चामृत स्नानाभिषेकम्
(वा॒म॒देवा॒य न॑मः – स्नानं)
इत्यादि निर्माल्यं-विँसृज्येत्यन्त-म्प्रतिवार-ङ्कुर्यात् ॥
॥ पञ्चामृतस्नानम् ॥
अथ (पञ्चामृत स्नानं) पञ्चामृतदेवताभ्यो नमः ।
ध्यानावाहनादि षोडशोपचारपूजास्समर्पयामि ।
भवानीशङ्करमुद्दिश्य भवानीशङ्कर प्रीत्यर्थ-म्पञ्चामृतस्नान-ङ्करिष्यामः ।
क्षीरं
आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥
श्री भवानीशङ्करास्वामिने नमः, क्षीरेण स्नपयामि ।
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशङ्करास्वामिने नमः । क्षीरस्नानानन्तरं शुद्धोदक स्नानं समर्पयामि ।
दधि
द॒धि॒क्राव्ण्णो॑ अकारिष-ञ्जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्राण॒ आयूग्ं॑षि तारिषत् ॥
श्री भवानीशङ्करास्वामिने नमः । दध्ना स्नपयामि ।
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशङ्करास्वामिने नमः । दधिस्नानानन्तरं शुद्धोदक स्नानं समर्पयामि ।
आज्यं
शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑सि दे॒वोव॑स्सवि॒तोत्पु॑ना॒-
त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ ।
श्री भवानीशङ्करास्वामिने नमः । आज्येन स्नपयामि ।
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशङ्करास्वामिने नमः । आज्य स्नानानन्तरं शुद्धोदक स्नानं समर्पयामि ।
मधु
मधु॒वाता॑ ऋताय॒ते मधु॑क्षरन्ति॒ सिन्ध॑वः ।
माध्वी᳚र्न-स्स॒न्त्वोष॑धीः ।
मधु॒ नक्त॑मु॒तोष॑सि॒ मधु॑म॒त्पार्थि॑व॒ग्ं॒ रजः॑ ।
मधु॒द्यौर॑स्तु नः पि॒ता ।
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्ं अस्तु॒ सूर्यः॑ ।
माध्वी॒र्गावो॑ भवन्तु नः ।
श्री भवानीशङ्करास्वामिने नमः । मधुना स्नपयामि ।
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशङ्करास्वामिने नमः । मधुस्नानानन्तरं शुद्धोदक स्नानं समर्पयामि ।
शर्कर
स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने ।
स्वा॒दुरिन्द्रा॑य सु॒हवी॑तु॒ नाम्ने᳚ ।
स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ ।
बृह॒स्पत॑ये॒ मधु॑मा॒ग्ं अदा᳚भ्यः ।
श्री भवानीशङ्करास्वामिने नमः । शर्करया स्नपयामि ।
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशङ्करास्वामिने नमः । शर्कर स्नानानन्तरं शुद्धोदक स्नानं समर्पयामि ।
श्री भवानीशङ्करास्वामिने नमः । पञ्चामृत स्नानं समर्पयामि ।
शङ्खोदकं
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशङ्करास्वामिने नमः । शङ्खोदकेन स्नपयामि ॥
फलोदकं
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणीः᳚ ।
बृह॒स्पति॑ प्रसूता॒स्तानो॑ मुञ्च॒न्त्वग्ं ह॑सः ॥
श्री भवानीशङ्करास्वामिने नमः । फलोदकेन स्नपयामि ।
गन्धोदकं
ग॒न्ध॒द्वा॒रा-न्दु॑राध॒र्षा॒-न्नि॒त्यपु॑ष्टा-ङ्करी॒षिणी᳚म् ।
ई॒श्वरी॑ग्ं सर्व॑भूता॒ना॒-न्तामि॒होप॑ह्वये॒ श्रियम् ॥
श्री भवानीशङ्करास्वामिने नमः । गन्धोदकेन स्नपयामि ।
पुष्पोदकं
यो॑-ऽपा-म्पुष्पं॒-वेँद॑ ।
पुष्प॑वा-न्प्र॒जावा॑-न्पशु॒मा-न्भ॑वति ।
च॒न्द्रमा॒ वा अ॒पा-म्पुष्प॑म् ।
पुष्प॑वा-न्प्र॒जावा॑-न्पशु॒मा-न्भ॑वति ।
श्री भवानीशङ्करास्वामिने नमः । पुष्पोदकेन स्नपयामि ।
अक्षतोदकं
आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहन्तु पु॒ष्पिणीः॑ ।
ह्र॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ।
श्री भवानीशङ्करास्वामिने नमः । अक्षतोदकेन स्नपयामि ।
सुवर्णोदकं
तथ्सु॒वर्ण॒ग्ं॒ हिर॑ण्यमभवत् ।
तथ्सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒जन्म॑ ।
य ए॒वग्ं सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॒वे॑द ।
सु॒वर्ण॑ आ॒त्मना॑ भवति ।
श्री भवानीशङ्करास्वामिने नमः । सुवर्णोदकेन स्नपयामि ।
रुद्राक्षोदकं
त्र्य॑म्बकं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒ वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मा-ऽमृता᳚त् ॥
श्री भवानीशङ्करास्वामिने नमः । रुद्राक्षोदकेन स्नपयामि ।
भस्मोदकं
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं
मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑-ऽवधीः पि॒तर॒-म्मोत मा॒तरं॑
प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ।
श्री भवानीशङ्करास्वामिने नमः । भस्मोदकेन स्नपयामि ।
बिल्वोदकं
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒
मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तो-ऽव॑धीर्ह॒विष्म॑न्तो॒
नम॑सा विधेम ते ।
श्री भवानीशङ्करास्वामिने नमः । बिल्वोदकेन स्नपयामि ।
दूर्वोदकं
काण्डा॑त्काण्डात्प्र॒रोह॑न्ति परु॑षः परुषः॒ परि॑ ।
ए॒वानो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च ॥
श्री भवानीशङ्करास्वामिने नमः । दूर्वोदकेन स्नपयामि ।
अथ मलापकर्षण स्नानम् ।
हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒का
यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ ।
अ॒ग्निं-याँ गर्भ॑-न्दधि॒रे विरू॑पा॒स्ता
न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥
यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑
सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् ।
म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्ता
न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥
यासा॑-न्दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं
या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।
याः पृ॑थि॒वी-म्पय॑सो॒न्दन्ति॑ शु॒क्रास्ता
न॒ आप॒श्शग्ग् स्यो॒ना भ॑वन्तु ॥
शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश्शि॒वया॑
त॒नुवोप॑ स्पृशत॒ त्वच॑-म्मे ।
सर्वाग्ं॑ अ॒ग्नीग्ं र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒
वर्चो॒ बल॒मोजो॒ निध॑त्त ॥
(अ.वे., काण्ड-3, सूक्तं-13)
यद॒द-स्स॑म्प्रय॒तीरहा॒वन॑दता ह॒ते ।
तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ॥ 1
यत्प्रेषि॑ता॒ वरु॑णे॒नताश्शीभ॑ग्ं स॒मव॑ल्गत ।
तदा॑प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑स्थन ॥ 2
आ॒प॒का॒मग्ग्ं स्यन्द॑माना॒ अवी॑वरत वो॒ हि क॑म् ।
इन्द्रो॑ व॒श्शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑ वो हि॒तम् ॥ 3
एको॑ वो दे॒वो अप्य॑तिष्ठ॒थ्स्यन्द॑माना यथाव॒शम् ।
उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ॥ 4
आपो॑ भ॒द्रा घृ॒तमिदाप॑ आनुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः ।
ती॒व्रो रसो॑ मधु॒पृचां॑ अ॒र॒ङ्ग॒म आ मा॑ प्रा॒णेन॑ स॒ह वर्च॑सागन्न् ॥ 5
आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्म॑ आसाम् ।
मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं-यँ॒दा वः॑ ॥ 6
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
श्री भवानीशङ्करास्वामिने नमः । शुद्धोदकेन स्नपयामि ।
[ दि॒विश्र॑यस्वा॒न्तरि॑क्षेयतस्व पृथि॒व्यासम्भ॑व ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॑त्वा । अ॒पा-ङ्ग्रहा॑न्गृह्णात्ये॒तद्वाप रा॑ज॒सूयं॒-यँदे॒तेग्रहा॑स्स॒वो॑-ऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑मग्निस॒वश्चित्य॒स्ताभ्या॑मे॒व सू॑य॒ते-ऽथो॑ उ॒भावे॒वलो॒काव॒भिज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा॑ग्नि॒चित॒ आपो॑ भव॒न्त्यापो॒ वा अ॒ग्नेर्भ्रातृ॑व्या॒ यद॒पो॑-ऽग्नेर॒धस्ता॑दुप॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒परा॑-ऽस्य॒भ्रातृ॑व्यो भवत्य॒मृतं॒-वाँ आप॒स्तस्मा॑द॒द्भिरव॑तान्तम॒भिषि॑ञ्चन्ति॒ नार्ति॒मार्छ॑ति॒सर्व॒मायु॑रेति ॥
]
पव॑मान॒स्सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्षणिः ।
यः पोता॒ स पु॑नातु मा । पु॒नन्तु॑ मा देवज॒नाः ।
पु॒नन्तु॒ मन॑वो धि॒या । पु॒नन्तु॒ विश्व॑ आ॒यवः॑ ।
जात॑वेदः प॒वित्र॑वत् । प॒वित्रे॑ण पुनाहि मा ।
शु॒क्रेण॑ देव॒दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतू॒ग्ं॒ रनु॑ ।
यत्ते॑ प॒वित्र॑म॒र्चिषि॑ । अग्ने॒ वित॑तमन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे । उ॒भाभ्या᳚-न्देवसवितः ।
प॒वित्रे॑ण स॒वेन॑ च । इ॒द-म्ब्रह्म॑ पुनीमहे ।
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त् ।
यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः ।
तया॒ मद॑न्त-स्सध॒माद्ये॑षु ।
व॒यग्ग् स्या॑म॒ पत॑यो रयी॒णाम् ।
वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु ।
वातः॑ प्रा॒णेने॑षि॒रो म॑यो॒ भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः ।
ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम् ॥
बृ॒हद्भि॑स्सवित॒स्तृभिः॑ । वर्षि॑ष्ठैर्देव॒मन्म॑भिः ।
अग्ने॒ दक्षैः᳚ पुनाहि मा । येन॑ दे॒वा अपु॑नत ।
येनापो॑ दि॒व्यङ्कशः॑ । तेन॑ दि॒व्येन॒ ब्रह्म॑णा ।
इ॒द-म्ब्रह्म॑ पुनीमहे । यः पा॑वमा॒नीर॒द्ध्येति॑ ।
ऋषि॑भि॒स्सम्भृ॑त॒ग्ं॒ रसम्॑ । सर्व॒ग्ं॒ स पू॒तम॑श्नाति ।
स्व॒दि॒त-म्मा॑त॒रिश्व॑ना । पा॒व॒मा॒नीर्यो अ॒ध्येति॑ ।
ऋषि॑भि॒स्सम्भृ॑त॒ग्ं॒ रसम्᳚ । तस्मै॒ सर॑स्वती दुहे ।
क्षी॒रग्ं स॒र्पिर्मधू॑द॒कम् ॥
पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः । सु॒दुघा॒हि पय॑स्वतीः ।
ऋषि॑भि॒स्सम्भृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतग्ं॑ हि॒तम् ।
पा॒व॒मा॒नीर्दि॑शन्तु नः । इ॒मं-लोँ॒कमथो॑ अ॒मुम् ।
कामा॒न्थ्सम॑र्धयन्तु नः । दे॒वीर्दे॒वैस्स॒माभृ॑ताः ।
पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः । सु॒दुघा॒हि घृ॑त॒श्चुतः॑ ।
ऋषि॑भि॒स्सम्भृ॑तो॒ रसः॑ । ब्रा॒ह्म॒णेष्व॒मृतग्ं॑ हि॒तम् ।
येन॑ दे॒वाः प॒वित्रे॑ण । आ॒त्मान॑-म्पु॒नते॒ सदा᳚ ।
तेन॑ स॒हस्र॑धारेण । पा॒व॒मा॒न्यः पु॑नन्तु मा ।
प्रा॒जा॒प॒त्य-म्प॒वित्रम्᳚ । श॒तोद्या॑मग्ं हिर॒ण्मयम्᳚ ।
तेन॑ ब्रह्म॒ विदो॑ व॒यम् । पू॒त-म्ब्रह्म॑ पुनीमहे ।
इन्द्र॑स्सुनी॒ती स॒हमा॑ पुनातु । सोम॑स्स्व॒स्त्या वरु॑णस्स॒मीच्या᳚ ।
य॒मो राजा᳚ प्रमृ॒णाभिः॑ पुनातु मा । जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु ।
आपो॒ वा इ॒दग्ं सर्वं॒-विँश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑
प॒शव॒ आपो-ऽन्न॒मापो-ऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑
स्व॒राडाप॒श्छन्दा॒ग्ं॒स्यापो॒ ज्योती॒ग्ं॒ष्यापो॒
यजू॒ग्ं॒ष्याप॑स्स॒त्यमाप॒स्सर्वा॑ दे॒वता॒ आपो॒
भूर्भुव॒स्सुव॒राप॒ ओम् ॥
अ॒पः प्रण॑यति । श्र॒द्धावा आपः॑ ।
श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पः प्रण॑यति । य॒ज्ञो वाअ आपः॑ ।
य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति
अ॒पः प्रण॑यति । व॒ज्रो वा आपः॑ ।
वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्रहृत्य॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पः प्रण॑यति । आपो॒ वै र॑क्षो॒घ्नीः ।
रक्ष॑सा॒मप॑हत्यै ।
अ॒पः प्रण॑यति । आपो॒ वै दे॒वाना॑-म्प्रि॒यन्धाम॑ ।
दे॒वाना॑मे॒व प्रि॒यन्धाम॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पः प्रण॑यति । आपो॒ वै सर्वा॑ दे॒वताः॑ ।
दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।
(आपो॒वैशा॒न्ताः । शा॒न्ताभि॑रे॒वास्य॑ शुचग्ं॑शमयति ॥)
श्री भवानीशङ्करास्वामिने नमः । मलापकर्षणस्नानं समर्पयामि ।
About This Stotram
Overview
Panchamruta Snanam is a ritual bathing procedure in which a deity's image is bathed with five sacred substances: milk (kshira), curd (dadhi), ghee (ghrita), honey (madhu), and sugar (sharkara). The ritual is performed as an act of worship (abhishekam) in both Shaiva and Vaishnava traditions, with the version in this text dedicated to Bhavani-Shankara (Parvati and Shiva). It is accompanied by Vedic mantras, including verses from the Rigveda.
What are the benefits of chanting Panchamruta Snanam?
- Sanctifies and honors the deity through the offering of pure substances
- Accumulates spiritual merit for the performer and participants
- Removes ritual impurities and negative influences
- Deepens devotional practice through structured ritual engagement
When is the best time to recite this?
Panchamruta Snanam is performed during major Shaiva festivals such as Maha Shivaratri, throughout the Shravana month, and on the deity's birth star. It is also conducted during temple consecration ceremonies (pratishtha) and in some home worship traditions.
What is the historical and traditional background?
The ritual of panchamrita abhishekam is described in various Puranas and Agamas, with roots in Vedic sacrificial culture where pure substances were offered to deities. The mantras accompanying the bathing rite, including verses invoking Vamadeva (an epithet of Shiva), draw from the Rigveda and Shaiva liturgical tradition. The specific text as compiled here does not have an identifiable single author; it reflects the practical ritual manuals used in temple and home worship that were codified through Agamic and Puranic literature over centuries.
Available scripts
This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.
Related Texts
- Shiva Panchakshara Stotram — a five-syllable hymn to Shiva commonly recited during Shiva-oriented abhishekam rituals
- Rudram — the principal Vedic hymn to Rudra/Shiva used in abhishekam ceremonies across Shaiva traditions
