Stotram - Sacred Scripture

Padmavathi Stotram

Padmavathi Stotram

Stotram
Unknown
10 Verses
110%

पद्मावती स्तोत्रं

श्लोक 1

विष्णुपत्नि जगन्मातः विष्णुवक्षस्थलस्थिते ।

पद्मासने पद्महस्ते पद्मावति नमोऽस्तु ते

श्लोक 2

वेङ्कटेशप्रिये पूज्ये क्षीराब्दितनये शुभे ।

पद्मेरमे लोकमातः पद्मावति नमोऽस्तु ते

॥ 1 ॥

श्लोक 3

कल्याणी कमले कान्ते कल्याणपुरनायिके ।

कारुण्यकल्पलतिके पद्मावति नमोऽस्तु ते

॥ 2 ॥

श्लोक 4

सहस्रदलपद्मस्थे कोटिचन्द्रनिभानने ।

पद्मपत्रविशालाक्षी पद्मावति नमोऽस्तु ते

॥ 3 ॥

श्लोक 5

सर्वज्ञे सर्ववरदे सर्वमङ्गलदायिनी ।

सर्वसम्मानिते देवी पद्मावति नमोऽस्तु ते

॥ 4 ॥

श्लोक 6

सर्वहृद्दहरावासे सर्वपापभयापहे ।

अष्टैश्वर्यप्रदे लक्ष्मी पद्मावति नमोऽस्तु ते

॥ 5 ॥

श्लोक 7

देहि मे मोक्षसाम्राज्यं देहि त्वत्पाददर्शनम् ।

अष्टैश्वर्यं च मे देहि पद्मावति नमोऽस्तु ते

॥ 6 ॥

श्लोक 8

नक्रश्रवणनक्षत्रे कृतोद्वाहमहोत्सवे ।

कृपया पाहि नः पद्मे त्वद्भक्तिभरितान् रमे

॥ 7 ॥

श्लोक 9

इन्दिरे हेमवर्णाभे त्वां वन्दे परमात्मिकाम् ।

भवसागरमग्नं मां रक्ष रक्ष महेश्वरी

॥ 8 ॥

श्लोक 10

कल्याणपुरवासिन्यै नारायण्यै श्रियै नमः ।

शृतिस्तुतिप्रगीतायै देवदेव्यै च मङ्गलम्

॥ 9 ॥

श्लोक 11