Stotram - Sacred Scripture

Nirvana Shatkam

Nirvana Shatkam

Stotram
Unknown
6 Verses
110%

निर्वाण षट्कम्

श्लोक 1

ॐ ॐ ओम् ...

शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं

मनो बुध्यहङ्कार चित्तानि नाहं

न च श्रोत्र जिह्वे न च घ्राणनेत्रे ।

न च व्योम भूमिर्न तेजो न वायुः

चिदानन्द रूपः शिवोऽहं शिवोऽहम्

श्लोक 2

शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं

न च प्राण सञ्ज्ञो न वैपञ्चवायुः

न वा सप्तधातुर्न वा पञ्चकोशाः ।

नवाक्पाणि पादौ न चोपस्थ पायू

चिदानन्द रूपः शिवोऽहं शिवोऽहम्

॥ 1 ॥

श्लोक 3

शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं

न मे द्वेषरागौ न मे लोभमोहो

मदो नैव मे नैव मात्सर्यभावः ।

न धर्मो न चार्धो न कामो न मोक्षः

चिदानन्द रूपः शिवोऽहं शिवोऽहम्

॥ 2 ॥

श्लोक 4

शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं

न पुण्यं न पापं न सौख्यं न दुःखं

न मन्त्रो न तीर्थं न वेदा न यज्ञः ।

अहं भोजनं नैव भोज्यं न भोक्ता

चिदानन्द रूपः शिवोऽहं शिवोऽहम्

॥ 3 ॥

श्लोक 5

शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं

न मृत्युर्न शङ्का न मे जाति भेदः

पिता नैव मे नैव माता न जन्मः ।

न बन्धुर्न मित्रं गुरुर्नैव शिष्यः

चिदानन्दरूपः शिवोऽहं शिवोऽहम्

॥ 4 ॥

श्लोक 6

शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं

अहं निर्विकल्पो निराकार रूपो

विभूत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।

न चासङ्गतं नैव मुक्तिर्न मेयः [न वा बन्धनं नैव मुक्तिर्न बन्धः]

चिदानन्दरूपः शिवोऽहं शिवोऽहम्

॥ 5 ॥

श्लोक 7

शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं, शिवोऽहं शिवोऽहं