Suktam - Sacred Scripture

Nakshatra Suktam (Nakshatreshti)

Nakshatra Suktam (Nakshatreshti)

Suktam
Unknown
0 Verses
110%

नक्षत्र सूक्तम् (नक्षत्रेष्टि)

श्लोक 1

तैत्तिरीय ब्राह्मण - अष्टकं 3, प्रश्नः 1,

तैत्तिरीय संहिता - काण्ड 3, प्रपाठकः 5, अनुवाकं 1

नक्षत्रं - कृत्तिका, देवता - अग्निः

ॐ अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्र-न्दे॒वमि॑न्द्रि॒यम् ।

इ॒दमा॑सां-विँचक्ष॒णम् । ह॒विरा॒स-ञ्जु॑होतन ।

यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚ ।

स कृत्ति॑काभि-र॒भिसं॒​वँसा॑नः । अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु ॥ 1

नक्षत्रं - रोहिणी, देवता - प्रजापतिः

प्र॒जाप॑ते रोहि॒णीवे॑तु॒ पत्नी᳚ । वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः ।

सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु । यथा॒ जीवे॑म श॒रद॒स्सवी॑राः ।

रो॒हि॒णी दे॒व्युद॑गात्पु॒रस्ता᳚त् । विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना ।

प्र॒जाप॑तिग्ं ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒या दे॒वाना॒-मुप॑यातु य॒ज्ञम् ॥ 2

नक्षत्रं - मृगशीर्​षः, देवता - सोमः

सोमो॒ राजा॑ मृगशी॒र्॒षेण॒ आगन्न्॑ । शि॒व-न्नक्ष॑त्र-म्प्रि॒यम॑स्य॒ धाम॑ ।

आ॒प्याय॑मानो बहु॒धा जने॑षु । रेतः॑ प्र॒जां-यँज॑माने दधातु ।

यत्ते॒ नक्ष॑त्र-म्मृगशी॒र्॒षमस्ति॑ । प्रि॒यग्ं रा॑ज-न्प्रि॒यत॑म-म्प्रि॒याणा᳚म् ।

तस्मै॑ ते सोम ह॒विषा॑ विधेम । शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे ॥ 3

नक्षत्रं - आर्द्रा, देवता - रुद्रः

आ॒र्द्रया॑ रु॒द्रः प्रथ॑मा न एति । श्रेष्ठो॑ दे॒वाना॒-म्पति॑रघ्नि॒याना᳚म् ।

नक्ष॑त्रमस्य ह॒विषा॑ विधेम । मा नः॑ प्र॒जाग्ं री॑रिष॒न्मोत वी॒रान् ।

हे॒ती रु॒द्रस्य॒ परि॑णो वृणक्तु । आ॒र्द्रा नक्ष॑त्र-ञ्जुषताग्ं ह॒विर्नः॑ ।

प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा᳚ । अपा॒घशग्ं॑ सन्नु-दता॒मरा॑तिम् ॥ 4

नक्षत्रं - पुनर्वसु, देवता - अदितिः

पुन॑र्नो दे॒व्यदि॑ति-स्पृणोतु । पुन॑र्वसू नः॒ पुन॒रेतां᳚-यँ॒ज्ञम् ।

पुन॑र्नो दे॒वा अ॒भिय॑न्तु॒ सर्वे᳚ । पुनः॑ पुनर्वो ह॒विषा॑ यजामः ।

ए॒वा न दे॒व्य-दि॑तिरन॒र्वा । विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा ।

पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒य-न्दे॒वाना॒-मप्ये॑तु॒ पाथः॑ ॥ 5

नक्षत्रं - पुष्यः, देवता - बृहस्पतिः

बृह॒स्पतिः॑ प्रथ॒मञ्जाय॑मानः । ति॒ष्य॑-न्नक्ष॑त्रम॒भि सम्ब॑भूव ।

श्रेष्ठो॑ दे॒वाना॒-म्पृत॑नासु जि॒ष्णुः । दि॒शो-ऽनु॒ सर्वा॒ अभ॑यन्नो अस्तु ।

ति॒ष्यः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॑ । बृह॒स्पति॑र्नः॒ परि॑पातु प॒श्चात् ।

बाधे॑ ता॒न्द्वेषो॒ अभ॑य-ङ्कृणुताम् । सु॒वीर्य॑स्य॒ पत॑यस्याम ॥ 6

नक्षत्रं -आश्रेषम्, देवता - सर्पाः

इ॒दग्ं स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्ट᳚म् । आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ ।

ये अ॒न्तरि॑क्ष-म्पृथि॒वीं-क्षि॒यन्ति॑ । तेन॑ स्स॒र्पासो॒ हव॒माग॑मिष्ठाः ।

ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः । ये दिव॑-न्दे॒वी-मनु॑स॒ञ्चर॑न्ति ।

येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ काम᳚म् । तेभ्य॑-स्स॒र्पेभ्यो॒ मधु॑-मज्जुहोमि ॥ 7

नक्षत्रं - मघा, देवता - पितरः

उप॑हूताः पि॒तरो॒ ये म॒घासु॑ । मनो॑जवस-स्सु॒कृत॑-स्सुकृ॒त्याः ।

ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मिष्ठाः । स्व॒धाभि॑र्य॒ज्ञ-म्प्रय॑त-ञ्जुषन्ताम् ।

ये अ॑ग्निद॒ग्धा ये-ऽन॑ग्नि-दग्धाः । ये॑-ऽमुल्लो॒क-म्पि॒तरः॑, क्षि॒यन्ति॑ ।

याग्​श्च॑ वि॒द्मयाग्ं उ॑ च॒ न प्र॑वि॒द्म । म॒घासु॑ य॒ज्ञग्ं सुकृ॑त-ञ्जुषन्ताम् ॥ 8

नक्षत्रं - पूर्वफल्गुनी, देवता - अर्यमा

गवा॒-म्पतिः॒ फल्गु॑नी-नामसि॒ त्वम् । तद॑र्यमन्वरुण मित्र॒ चारु॑ ।

त-न्त्वा॑ व॒यग्ं स॑नि॒तारग्ं॑ सनी॒नाम् । जी॒वा जीव॑न्त॒मुप॒ सं​विँ॑शेम ।

येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता । यस्य॑ दे॒वा अ॑नुसं॒​यँन्ति॒ चेतः॑ ।

अ॒र्य॒मा राजा॒-ऽजर॒स्तु वि॑ष्मान् । फल्गु॑नीना-मृष॒भो रो॑रवीति ॥ 9

नक्षत्रं - उत्तर फल्गुनी, देवता - भगः

श्रेष्ठो॑ दे॒वाना᳚-म्भगवो भगासि । तत्त्वा॑ विदुः॒ फल्गु॑नी॒-स्तस्य॑ वित्तात् ।

अ॒स्मभ्यं॑-क्ष॒त्रम॒जरग्ं॑ सु॒वीर्य᳚म् । गोम॒दश्व॑-व॒दुप॒सन्नु॑-दे॒ह ।

भगो॑ह दा॒ता भग॒ इत्प्र॑दा॒ता । भगो॑ दे॒वीः फल्गु॑नी॒-रावि॑वेश ।

भग॒स्येत्त-म्प्र॑स॒व-ङ्ग॑मेम । यत्र॑ दे॒वै-स्स॑ध॒माद॑-म्मदेम ॥ 10

नक्षत्रं - हस्तः, देवता - सविता

आया॑तु दे॒व-स्स॑वि॒तो प॑यातु । हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न ।

वह॒न॒, हस्तग्ं॑ सु॒भगं॑-विँद्म॒नाप॑सम् । प्र॒यच्छ॑न्त॒-म्पपु॑रि॒-म्पुण्य॒मच्छ॑ ।

हस्तः॒ प्रय॑च्छ त्व॒मृतं॒-वँसी॑यः । दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत् ।

दा॒तार॑-म॒द्य स॑वि॒ता वि॑देय । यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् ॥ 11

नक्षत्रं - चित्रा, देवता - त्वष्टा

त्वष्टा॒ नक्ष॑त्र-म॒भ्ये॑ति चि॒त्राम् । सु॒भग्ं स॑सं​युँव॒तिग्ं रोच॑मानाम् ।

नि॒वे॒शय॑-न्न॒मृता॒-न्मर्त्याग्॑श्च । रू॒पाणि॑ पि॒ग्ं॒श-न्भुव॑नानि॒ विश्वा᳚ ।

तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् । तन्नक्ष॑त्र-म्भूरि॒दा अ॑स्तु॒ मह्य᳚म् ।

तन्नः॑ प्र॒जां-वीँ॒रव॑तीग्ं सनोतु । गोभि॑र्नो॒ अश्वै॒-स्सम॑नक्तु य॒ज्ञम् ॥ 12

नक्षत्रं - स्वाती, देवता - वायुः

वा॒यु-र्नक्ष॑त्र-म॒भ्ये॑ति॒ निष्ट्या᳚म् । ति॒ग्मशृ॑ङ्गो वृष॒भो रोरु॑वाणः ।

स॒मी॒रय॒-न्भुव॑ना मात॒रिश्वा᳚ । अप॒ द्वेषाग्ं॑सि नुदता॒मरा॑तीः ।

तन्नो॑ वा॒यस्तदु॒ निष्ट्या॑ शृणोतु । तन्नक्ष॑त्र-म्भूरि॒दा अ॑स्तु॒ मह्य᳚म् ।

तन्नो॑ दे॒वासो॒ अनु॑ जानन्तु॒ काम᳚म् । यथा॒ तरे॑म दुरि॒तानि॒ विश्वा᳚ ॥ 13

नक्षत्रं - विशाखा, देवता - इन्द्राग्नी

दू॒रम॒स्मच्छत्र॑वो यन्तु भी॒ताः । तदि॑न्द्रा॒ग्नी कृ॑णुता॒-न्तद्विशा॑खे ।

तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञम् । प॒श्चा-त्पु॒रस्ता॒-दभ॑यन्नो अस्तु ।

नक्ष॑त्राणा॒-मधि॑पत्नी॒ विशा॑खे । श्रेष्ठा॑-विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ ।

विषू॑च॒-श्शत्रू॑नप॒बाध॑मानौ । अप॒क्षुध॑-न्नुदता॒मरा॑तिम् ॥ 14

पौर्णमासि

पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता᳚त् । उन्म॑ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय ।

तस्या᳚-न्दे॒वा अधि॑ सं॒-वँस॑न्तः । उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् ।

पृ॒थ्वी सु॒वर्चा॑ युव॒ति-स्स॒जोषाः᳚ । पौ॒र्ण॒मा॒स्युद॑गा॒-च्छोभ॑माना ।

आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा᳚ । उ॒रु-न्दुहां॒-यँज॑मानाय य॒ज्ञम् ॥ 15

नक्षत्रं - अनूराधा, देवता - मित्रः

ऋ॒द्ध्यास्म॑ ह॒व्यै-र्नम॑सोप॒-सद्य॑ । मि॒त्र-न्दे॒व-म्मि॑त्र॒धेय॑न्नो अस्तु ।

अ॒नू॒रा॒धान्, ह॒विषा॑ व॒र्धय॑न्तः । श॒त-ञ्जी॑वेम श॒रद॒-स्सवी॑राः ।

चि॒त्रं-नक्ष॑त्र॒-मुद॑गा-त्पु॒रस्ता᳚त् । अ॒नू॒रा॒धा स॒ इति॒ यद्वद॑न्ति ।

तन्मि॒त्र ए॑ति प॒थिभि॑-र्देव॒यानैः᳚ । हि॒र॒ण्ययै॒-र्वित॑तै-र॒न्तरि॑क्षे ॥ 16

नक्षत्रं - ज्येष्ठा, देवता - इन्द्रः

इन्द्रो᳚ ज्ये॒ष्ठा मनु॒ नक्ष॑त्रमेति । यस्मि॑न् वृ॒त्रं-वृँ॑त्र॒ तूर्ये॑ त॒तार॑ ।

तस्मि॑न्व॒य-म॒मृत॒-न्दुहा॑नाः । क्षुध॑न्तरेम॒ दुरि॑ति॒-न्दुरि॑ष्टिम् ।

पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे᳚ । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ ।

इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना । उ॒रु-ङ्कृ॑णोतु॒ यज॑मानाय लो॒कम् ॥ 17

नक्षत्रं - मूलम्, देवता - प्रजापतिः

मूल॑-म्प्र॒जां-वीँ॒रव॑तीं-विँदेय । परा᳚च्येतु॒ निर्-ऋ॑तिः परा॒चा ।

गोभि॒-र्नक्ष॑त्र-म्प॒शुभि॒-स्सम॑क्तम् । अह॑-र्भूया॒-द्यज॑मानाय॒ मह्य᳚म् ।

अह॑र्नो अ॒द्य सु॑वि॒ते द॑धातु । मूल॒-न्नक्ष॑त्र॒मिति॒ यद्वद॑न्ति ।

परा॑चीं-वाँ॒चा निर्-ऋ॑ति-न्नुदामि । शि॒व-म्प्र॒जायै॑ शि॒वम॑स्तु॒ मह्य᳚म् ॥ 18

नक्षत्रं - पूर्वाषाढा, देवता - आपः

या दि॒व्या आपः॒ पय॑सा सम्बभू॒वुः । या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः ।

यासा॑मषा॒ढा अ॑नु॒यन्ति॒ काम᳚म् । ता न॒ आप॒-श्शग्ग्​ स्यो॒ना भ॑वन्तु ।

याश्च॒ कूप्या॒ याश्च॑ ना॒द्या᳚-स्समु॒द्रियाः᳚ । याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः ।

यासा॑मषा॒ढा मधु॑ भ॒क्षय॑न्ति । ता न॒ आप॒-श्शग्ग्​ स्यो॒ना भ॑वन्तु ॥ 19

नक्षत्रं - उत्तराषाढा, देवता - विश्वेदेवः

तन्नो॒ विश्वे॒ उप॑ शृण्वन्तु दे॒वाः । तद॑षा॒ढा अ॒भिसं​यँ॑न्तु य॒ज्ञम् ।

तन्नक्ष॑त्र-म्प्रथता-म्प॒शुभ्यः॑ । कृ॒षि-र्वृ॒ष्टि-र्यज॑मानाय कल्पताम् ।

शु॒भ्राः क॒न्या॑ युव॒तय॑-स्सु॒पेश॑सः । क॒र्म॒कृत॑-स्सु॒कृतो॑ वी॒र्या॑वतीः ।

विश्वा᳚-न्दे॒वान्, ह॒विषा॑ व॒र्धय॑न्तीः ।

अ॒षा॒ढाः काम॒ मुप॑यान्तु य॒ज्ञम् ॥ 20

नक्षत्रं - अभिजित्, देवता - ब्रह्मा

यस्मि॒-न्ब्रह्मा॒भ्यज॑य॒-थ्सर्व॑मे॒तत् । अ॒मुञ्च॑ लो॒क मि॒दमू॑च॒ सर्व᳚म् ।

तन्नो॒ नक्ष॑त्र-मभि॒जि-द्वि॒जित्य॑ । श्रिय॑-न्दधा॒त्व-हृ॑णीयमानम् ।

उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ । तन्नो॒ नक्ष॑त्र-मभि॒जि-द्विच॑ष्टाम् ।

तस्मि॑न् व॒य-म्पृत॑ना॒ स्सञ्ज॑येम । तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम᳚म् ॥ 21

नक्षत्रं - श्रवणम्, देवता - विष्णुः

शृ॒ण्वन्ति॑ श्रो॒णा-म॒मृत॑स्य गो॒पाम् । पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् ।

म॒ही-न्दे॒वीं-विँष्णु॑पत्नी मजू॒र्याम् । प्र॒तीची॑ मेनाग्ं ह॒विषा॑ यजामः ।

त्रे॒धा विष्णु॑-रुरुगा॒यो विच॑क्रमे । म॒ही-न्दिव॑-म्पृथि॒वी-म॒न्तरि॑क्षम् ।

तच्छ्रो॒णैति॒ श्रव॑-इ॒च्छमा॑ना । पुण्य॒ग्ग्॒ श्लोकं॒-यँज॑मानाय कृण्व॒ती ॥ 22

नक्षत्रं - श्रविष्टा, देवता - वसवः

अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑ । चत॑स्रो दे॒वी र॒जरा॒-श्श्रवि॑ष्ठाः ।

ते य॒ज्ञ-म्पा᳚न्तु॒ रज॑सः प॒रस्ता᳚त् । सं॒​वँ॒थ्स॒रीण॑-म॒मृतग्ग्॑ स्व॒स्ति ।

य॒ज्ञ-न्नः॑ पान्तु॒ वस॑वः पु॒रस्ता᳚त् । द॒क्षि॒ण॒तो॑-ऽभिय॑न्तु॒ श्रवि॑ष्ठाः ।

पुण्य॒न्नक्ष॑त्रम॒भि सं​विँ॑शाम । मा नो॒ अरा॑ति-र॒घश॒ग्ं॒ सागन्न्॑ ॥ 23

नक्षत्रं - शतभिषक्, देवता - वरुणः

क्ष॒त्रस्य॒ राजा॒ वरु॑णो-ऽधिरा॒जः । नक्ष॑त्राणाग्ं श॒तभि॑ष॒ग् वसि॑ष्ठः ।

तौ दे॒वेभ्यः॑ कृणुतो दी॒र्घमायः॑ । श॒तग्ं स॒हस्रा॑ भेष॒जानि॑ धत्तः ।

य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु । तन्नो॒ विश्वे॑ अ॒भिसं​यँ॑न्तु दे॒वाः ।

तन्नो॒ नक्ष॑त्रग्ं श॒तभि॑षग् जुषा॒णम् । दी॒र्घमायुः॒ प्रति॑र-द्भेष॒जानि॑ ॥ 24

नक्षत्रं - पूर्वप्रोष्ठपदा, देवता - अजयेकपादः

अ॒ज एक॑पा॒- दुद॑गा-त्पु॒रस्ता᳚त् । विश्वा॑ भू॒तानि॑ प्रति॒ मोद॑मानः ।

तस्य॑ दे॒वाः प्र॑स॒वं-यँ॑न्ति॒ सर्वे᳚ । प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः ।

वि॒भ्राज॑मान-स्समिधा॒न उ॒ग्रः । आ-ऽन्तरि॑क्ष-मरुह॒द-द्ग॒न्द्याम् ।

तग्ं सूर्य॑-न्दे॒व-म॒जमेक॑पादम् । प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे᳚ ॥ 25

नक्षत्रं - उत्तरप्रोष्ठपदा, देवता - अहिर्बुद्ध्नियः

अहि॑-र्बु॒द्ध्नियः॒ प्रथ॑मान एति । श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम् ।

त-म्ब्रा᳚ह्म॒णा-स्सो॑म॒पा-स्सो॒म्यासः॑ । प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑क्षन्ति॒ सर्वे᳚ ।

च॒त्वार॒ एक॑म॒भि कर्म॑ दे॒वाः । प्रो॒ष्ठ॒प॒दास॒ इति॒ यान्, वद॑न्ति ।

ते बु॒द्धनिय॑-म्परि॒षद्यग्ग्॑ स्तु॒वन्तः॑ । अहिग्ं॑ रक्षन्ति॒ नम॑सोप॒ सद्य॑ ॥ 26

नक्षत्रं - रेवती, देवता - पूषा

पू॒षा रे॒वत्यन्वे॑ति॒ पन्था᳚म् । पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ ।

इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा । सु॒गैर्नो॒ यानै॒रुप॑यातां-यँ॒ज्ञम् ।

क्षु॒द्रा-न्प॒शू-न्र॑क्षतु रे॒वती॑ नः । गावो॑ नो॒ अश्वा॒ग्ं॒ अन्वे॑तु पू॒षा ।

अन्न॒ग्ं॒ रक्ष॑न्तौ बहु॒धा विरू॑पम् । वाजग्ं॑ सनुतां॒-यँज॑मानाय य॒ज्ञम् ॥ 27

नक्षत्रं - अश्विनी, देवता - अश्विनी देव

तद॒श्विना॑-वश्व॒युजो-प॑याताम् । शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ ।

स्वन्नक्ष॑त्रग्ं ह॒विषा॒ यज॑न्तौ । मद्ध्वा॒-सम्पृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ ।

यौ दे॒वाना᳚-म्भि॒षजौ॑ हव्यवा॒हौ । विश्व॑स्य दू॒ता-व॒मृत॑स्य गो॒पौ ।

तौ नक्ष॑त्रं-जुजुषा॒णो-प॑याताम् । नमो॒-ऽश्विभ्या᳚-ङ्कृणुमो-ऽश्व॒ग्युभ्या᳚म् ॥ 28

नक्षत्रं - अपभरणी, देवता - यमः

अप॑ पा॒प्मान॒-म्भर॑णी-र्भरन्तु । तद्य॒मो राजा॒ भग॑वा॒न्॒, विच॑ष्टाम् ।

लो॒कस्य॒ राजा॑ मह॒तो म॒हान्, हि । सु॒गन्नः॒ पन्था॒मभ॑य-ङ्कृणोतु ।

यस्मि॒-न्नक्ष॑त्रे य॒म एति॒ राजा᳚ । यस्मि॑न्नेन-म॒भ्यषि॑ञ्चन्त दे॒वाः ।

तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम । अप॑ पा॒प्मान॒-म्भर॑णी-र्भरन्तु ॥ 29

अमावासि

नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नां॒-विँश्वा॑ रू॒पाणि॒ वसू᳚न्या-वे॒शय॑न्ती ।

स॒ह॒स्र॒-पो॒षग्ं सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न् वर्च॑सा सं​विँदा॒ना ।

यत्ते॑ दे॒वा अद॑धु-र्भाग॒धेय॒-ममा॑वास्ये सं॒​वँस॑न्तो महि॒त्वा ।

सा नो॑ य॒ज्ञ-म्पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीर᳚म् ॥ 30

ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

31-40: Optional for Additional Chanting

चन्द्रमा

नवो॑ नवो भवति॒ जाय॑मा॒नो-ऽह्ना᳚-ङ्के॒तु-रु॒षसा॑ मे॒त्यग्रे᳚ ।

भा॒ग-न्दे॒वेभ्यो॒ विद॑धात्या॒य-न्प्रच॒न्द्रमा᳚स्तिरिति दी॒र्घमायुः॑ ॥

यमा॑दि॒त्या अ॒ग्ं॒शुमा᳚प्या॒यय॑न्ति॒ यमक्षि॑त॒-मक्षि॑तयः॒ पिब॑न्ति ।

तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒ राप्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ॥ 31

अहो रात्र

ये विरू॑पे॒ सम॑नसा सं​व्यँय॑न्ती । स॒मा॒न-न्तन्तु॑-म्परिता-त॒नाते᳚ ।

वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे । ते नो॒ नक्ष॑त्रे॒ हव॒माग॑-मेतम् ।

व॒य-न्दे॒वी ब्रह्म॑णा सं​विँदा॒नाः । सु॒रत्ना॑सो दे॒ववी॑ति॒-न्दधा॑नाः ।

अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्धय॑न्तः । अति॑ पा॒प्मान॒-मति॑मुक्त्या गमेम ॥ 32

उषा

प्रत्यु॑व दृश्याय॒ती । व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः ।

अ॒पो म॒ही वृ॑णुते॒ चक्षु॑षा । तमो॒ ज्योति॑ष्​कृणोति सू॒नरी᳚ ।

उदु॒ स्त्रिया᳚स्सचते॒ सूर्यः॑ । स चा॑ उ॒द्यन्नक्ष॑त्र मर्चि॒मत् ।

त वेदु॑षो॒ व्युषि॒ सूर्य॑स्य च । सम्भ॒क्तेन॑ गमेमहि ॥ 33

नक्षत्रः

तन्नो॒ नक्ष॑त्र मर्चि॒मत् । भा॒नु॒मत्तेज॑ उ॒च्छर॑त् ।

उप॑य॒ज्ञ-मि॒हाग॑मत् । प्रनक्ष॑त्राय दे॒वाय॑ । इन्द्रा॒येन्दुग्ं॑ हवामहे ।

स न॑ स्सवि॒ता सु॑वथ्स॒निम् । पु॒ष्टि॒दां-वीँ॒रव॑त्तमम् ॥ 34

सूर्यः

उदु॒त्य-ञ्जा॒तवे॑दस-न्दे॒वं-वँ॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य᳚म् ।

चि॒त्र-न्दे॒वाना॒ मुद॑गा॒दनी॑क॒-ञ्चक्षु॑-र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।

आ-ऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ग्ं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ 35

अदितिः

अदि॑तिर्न उरुष्य॒-त्वदि॑ति॒-श्शर्म॑ यच्छतु । अदि॑तिः पा॒त्वग्ं ह॑सः।

म॒हीमू॒षु मा॒तरग्ं॑ सुव्र॒ताना॑-मृ॒तस्य॒ पत्नी॒ मव॑से हुवेम ।

तु॒वि॒क्ष॒त्रा-म॒जर॑न्ती मुरू॒चीग्ं सु॒शर्मा॑ण॒-मदि॑तिग्ं सु॒प्रणी॑तिम् ॥ 36

विष्णुः

इ॒दं-विँष्णु॒-र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् । समू॑ढमस्य पाग्ं सु॒रे ।

प्रतद्विष्णु॑ स्तवते वी॒र्या॑य । मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।

यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ॥ 37

अग्निः

अ॒ग्नि-र्मू॒द्​र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् ।

अ॒पाग्ं रेताग्ं॑सि जिन्वति ।

भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒-स्सच॑से शि॒वाभिः॑ ।

दि॒वि मू॒द्​र्धान॑-न्दधिषे सुव॒र्॒षा-ञ्जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाहं᳚ ॥ 38

अनुमती

अनु॑नो॒-ऽद्यानु॑मति-र्य॒ज्ञ-न्दे॒वेषु॑ मन्यताम् ।

अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑ता-न्दा॒शुषे॒ मयः॑ ।

अन्विद॑नुमते॒ त्व-म्मन्या॑सै॒ शञ्च॑ नः कृधि ।

क्रत्वे॒ दक्षा॑य नो हिनु॒ प्रण॒ आयूग्ं॑षि तारिषः ॥ 39

हव्यवाहः (अग्निः)

ह॒व्य॒वाह॑मभि-माति॒षाह᳚म् । र॒क्षो॒हण॒-म्पृत॑नासु जि॒ष्णुम् ।

ज्योति॑ष्मन्त॒-न्दीद्य॑त॒-म्पुर॑न्धिम् । अ॒ग्निग्ग्​ स्वि॑ष्ट॒ कृत॒माहु॑वेम ।

स्वि॑ष्ट मग्ने अ॒भित-त्पृ॑णाहि । विश्वा॑ देव॒ पृत॑ना अ॒भिष्य ।

उ॒रुन्नः॒ पन्था᳚-म्प्रदि॒शन् विभा॑हि । ज्योति॑ष्मद्धेह्य॒ जर॑न्न॒ आयुः॑ ॥ 40

ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥