Manidweepa Varnana
Manidweepa Varnana
मणिद्वीप वर्णन - 1 (देवी भागवतम्)
श्लोक 1
(श्रीदेवीभागवतं, द्वादश स्कन्धं, दशमोऽध्यायः, , मणिद्वीप वर्णन - 1)
व्यास उवाच –
ब्रह्मलोकादूर्ध्वभागे सर्वलोकोऽस्ति यः श्रुतः ।
मणिद्वीपः स एवास्ति यत्र देवी विराजते
श्लोक 2
सर्वस्मादधिको यस्मात्सर्वलोकस्ततः स्मृतः ।
पुरा पराम्बयैवायं कल्पितो मनसेच्छया
॥ 1 ॥
श्लोक 3
सर्वादौ निजवासार्थं प्रकृत्या मूलभूतया ।
कैलासादधिको लोको वैकुण्ठादपि चोत्तमः
॥ 2 ॥
श्लोक 4
गोलोकादपि सर्वस्मात्सर्वलोकोऽधिकः स्मृतः ।
नैतत्समं त्रिलोक्यां तु सुन्दरं विद्यते क्वचित्
॥ 3 ॥
श्लोक 5
छत्रीभूतं त्रिजगतो भवसन्तापनाशकम् ।
छायाभूतं तदेवास्ति ब्रह्माण्डानां तु सत्तम
॥ 4 ॥
श्लोक 6
बहुयोजनविस्तीर्णो गम्भीरस्तावदेव हि ।
मणिद्वीपस्य परितो वर्तते तु सुधोदधिः
॥ 5 ॥
श्लोक 7
मरुत्सङ्घट्टनोत्कीर्णतरङ्ग शतसङ्कुलः ।
रत्नाच्छवालुकायुक्तो झषशङ्खसमाकुलः
॥ 6 ॥
श्लोक 8
वीचिसङ्घर्षसञ्जातलहरीकणशीतलः ।
नानाध्वजसमायुक्ता नानापोतगतागतैः
॥ 7 ॥
श्लोक 9
विराजमानः परितस्तीररत्नद्रुमो महान् ।
तदुत्तरमयोधातुनिर्मितो गगने ततः
॥ 8 ॥
श्लोक 10
सप्तयोजनविस्तीर्णः प्राकारो वर्तते महान् ।
नानाशस्त्रप्रहरणा नानायुद्धविशारदाः
॥ 9 ॥
श्लोक 11
रक्षका निवसन्त्यत्र मोदमानाः समन्ततः ।
चतुर्द्वारसमायुक्तो द्वारपालशतान्वितः
॥ 10 ॥
श्लोक 12
नानागणैः परिवृतो देवीभक्तियुतैर्नृप ।
दर्शनार्थं समायान्ति ये देवा जगदीशितुः
॥ 11 ॥
श्लोक 13
तेषां गणा वसन्त्यत्र वाहनानि च तत्र हि ।
विमानशतसङ्घर्षघण्टास्वनसमाकुलः
॥ 12 ॥
श्लोक 14
हयहेषाखुराघातबधिरीकृतदिम्मुखः ।
गणैः किलकिलारावैर्वेत्रहस्तैश्च ताडिताः
॥ 13 ॥
श्लोक 15
सेवका देवसङ्गानां भ्राजन्ते तत्र भूमिप ।
तस्मिङ्कोलाहले राजन्नशब्दः केनचित्क्वचित्
॥ 14 ॥
श्लोक 16
कस्यचिच्छ्रूयतेऽत्यन्तं नानाध्वनिसमाकुले ।
पदे पदे मिष्टवारिपरिपूर्णसरान्सि च
॥ 15 ॥
श्लोक 17
वाटिका विविधा राजन् रत्नद्रुमविराजिताः ।
तदुत्तरं महासारधातुनिर्मितमण्डलः
॥ 16 ॥
श्लोक 18
सालोऽपरो महानस्ति गगनस्पर्शि यच्छिरः ।
तेजसा स्याच्छतगुणः पूर्वसालादयं परः
॥ 17 ॥
श्लोक 19
गोपुरद्वारसहितो बहुवृक्षसमन्वितः ।
या वृक्षजातयः सन्ति सर्वास्तास्तत्र सन्ति च
॥ 18 ॥
श्लोक 20
निरन्तरं पुष्पयुताः सदा फलसमन्विताः ।
नवपल्लवसंयुक्ताः परसौरभसङ्कुलाः
॥ 19 ॥
श्लोक 21
पनसा बकुला लोध्राः कर्णिकाराश्च शिंशपाः ।
देवदारुकाञ्चनारा आम्राश्चैव सुमेरवः
॥ 20 ॥
श्लोक 22
लिकुचा हिङ्गुलाश्चैला लवङ्गाः कट्फलास्तथा ।
पाटला मुचुकुन्दाश्च फलिन्यो जघनेफलाः
॥ 21 ॥
श्लोक 23
तालास्तमालाः सालाश्च कङ्कोला नागभद्रकाः ।
पुन्नागाः पीलवः साल्वका वै कर्पूरशाखिनः
॥ 22 ॥
श्लोक 24
अश्वकर्णा हस्तिकर्णास्तालपर्णाश्च दाडिमाः ।
गणिका बन्धुजीवाश्च जम्बीराश्च कुरण्डकाः
॥ 23 ॥
श्लोक 25
चाम्पेया बन्धुजीवाश्च तथा वै कनकद्रुमाः ।
कालागुरुद्रुमाश्चैव तथा चन्दनपादपाः
॥ 24 ॥
श्लोक 26
खर्जूरा यूथिकास्तालपर्ण्यश्चैव तथेक्षवः ।
क्षीरवृक्षाश्च खदिराश्चिञ्चाभल्लातकास्तथा
॥ 25 ॥
श्लोक 27
रुचकाः कुटजा वृक्षा बिल्ववृक्षास्तथैव च ।
तुलसीनां वनान्येवं मल्लिकानां तथैव च
॥ 26 ॥
श्लोक 28
इत्यादितरुजातीनां वनान्युपवनानि च ।
नानावापीशतैर्युक्तान्येवं सन्ति धराधिप
॥ 27 ॥
श्लोक 29
कोकिलारावसंयुक्ता गुन्जद्भ्रमरभूषिताः ।
निर्यासस्राविणः सर्वे स्निग्धच्छायास्तरूत्तमाः
॥ 28 ॥
श्लोक 30
नानाऋतुभवा वृक्षा नानापक्षिसमाकुलाः ।
नानारसस्राविणीभिर्नदीभिरतिशोभिताः
॥ 29 ॥
श्लोक 31
पारावतशुकव्रातसारिकापक्षमारुतैः ।
हंसपक्षसमुद्भूत वातव्रातैश्चलद्द्रुमम्
॥ 30 ॥
श्लोक 32
सुगन्धग्राहिपवनपूरितं तद्वनोत्तमम् ।
सहितं हरिणीयूथैर्धावमानैरितस्ततः
॥ 31 ॥
श्लोक 33
नृत्यद्बर्हिकदम्बस्य केकारावैः सुखप्रदैः ।
नादितं तद्वनं दिव्यं मधुस्रावि समन्ततः
॥ 32 ॥
श्लोक 34
कांस्यसालादुत्तरे तु ताम्रसालः प्रकीर्तितः ।
चतुरस्रसमाकार उन्नत्या सप्तयोजनः
॥ 33 ॥
श्लोक 35
द्वयोस्तु सालयोर्मध्ये सम्प्रोक्ता कल्पवाटिका ।
येषां तरूणां पुष्पाणि काञ्चनाभानि भूमिप
॥ 34 ॥
श्लोक 36
पत्राणि काञ्चनाभानि रत्नबीजफलानि च ।
दशयोजनगन्धो हि प्रसर्पति समन्ततः
॥ 35 ॥
श्लोक 37
तद्वनं रक्षितं राजन्वसन्तेनर्तुनानिशम् ।
पुष्पसिंहासनासीनः पुष्पच्छत्रविराजितः
॥ 36 ॥
श्लोक 38
पुष्पभूषाभूषितश्च पुष्पासवविघूर्णितः ।
मधुश्रीर्माधवश्रीश्च द्वे भार्ये तस्य सम्मते
॥ 37 ॥
श्लोक 39
क्रीडतः स्मेरवदने सुमस्तबककन्दुकैः ।
अतीव रम्यं विपिनं मधुस्रावि समन्ततः
॥ 38 ॥
श्लोक 40
दशयोजनपर्यन्तं कुसुमामोदवायुना ।
पूरितं दिव्यगन्धर्वैः साङ्गनैर्गानलोलुपैः
॥ 39 ॥
श्लोक 41
शोभितं तद्वनं दिव्यं मत्तकोकिलनादितम् ।
वसन्तलक्ष्मीसंयुक्तं कामिकामप्रवर्धनम्
॥ 40 ॥
श्लोक 42
ताम्रसालादुत्तरत्र सीससालः प्रकीर्तितः ।
समुच्छ्रायः स्मृतोऽप्यस्य सप्तयोजनसङ्ख्यया
॥ 41 ॥
श्लोक 43
सन्तानवाटिकामध्ये सालयोस्तु द्वयोर्नृप ।
दशयोजनगन्धस्तु प्रसूनानां समन्ततः
॥ 42 ॥
श्लोक 44
हिरण्याभानि कुसुमान्युत्फुल्लानि निरन्तरम् ।
अमृतद्रवसंयुक्तफलानि मधुराणि च
॥ 43 ॥
श्लोक 45
ग्रीष्मर्तुर्नायकस्तस्या वाटिकाया नृपोत्तम ।
शुक्रश्रीश्च शुचिश्रीश्च द्वे भार्ये तस्य सम्मते
॥ 44 ॥
श्लोक 46
सन्तापत्रस्तलोकास्तु वृक्षमूलेषु संस्थिताः ।
नानासिद्धैः परिवृतो नानादेवैः समन्वितः
॥ 45 ॥
श्लोक 47
विलासिनीनां बृन्दैस्तु चन्दनद्रवपङ्किलैः ।
पुष्पमालाभूषितैस्तु तालवृन्तकराम्बुजैः
॥ 46 ॥
श्लोक 48
प्रकारः शोभितो एजच्छीतलाम्बुनिषेविभिः ।
सीससालादुत्तरत्राप्यारकूटमयः शुभः
॥ 47 ॥
श्लोक 49
प्राकारो वर्तते राजन्मुनियोजनदैर्घ्यवान् ।
हरिचन्दनवृक्षाणां वाटी मध्ये तयोः स्मृता
॥ 48 ॥
श्लोक 50
सालयोरधिनाथस्तु वर्षर्तुर्मेघवाहनः ।
विद्युत्पिङ्गलनेत्रश्च जीमूतकवचः स्मृतः
॥ 49 ॥
श्लोक 51
वज्रनिर्घोषमुखरश्चेन्द्रधन्वा समन्ततः ।
सहस्रशो वारिधारा मुञ्चन्नास्ते गणावृतः
॥ 50 ॥
श्लोक 52
नभः श्रीश्च नभस्यश्रीः स्वरस्या रस्यमालिनी ।
अम्बा दुला निरत्निश्चाभ्रमन्ती मेघयन्तिका
॥ 51 ॥
श्लोक 53
वर्षयन्ती चिबुणिका वारिधारा च सम्मताः ।
वर्षर्तोर्द्वादश प्रोक्ताः शक्तयो मदविह्वलाः
॥ 52 ॥
श्लोक 54
नवपल्लववृक्षाश्च नवीनलतिकान्विताः ।
हरितानि तृणान्येव वेष्टिता यैर्धराऽखिला
॥ 53 ॥
श्लोक 55
नदीनदप्रवाहाश्च प्रवहन्ति च वेगतः ।
सरांसि कलुषाम्बूनि रागिचित्तसमानि च
॥ 54 ॥
श्लोक 56
वसन्ति देवाः सिद्धाश्च ये देवीकर्मकारिणः ।
वापीकूपतडागाश्च ये देव्यर्थं समर्पिताः
॥ 55 ॥
श्लोक 57
ते गणा निवसन्त्यत्र सविलासाश्च साङ्गनाः ।
आरकूटमयादग्रे सप्तयोजनदैर्घ्यवान्
॥ 56 ॥
श्लोक 58
पञ्चलोहात्मकः सालो मध्ये मन्दारवाटिका ।
नानापुष्पलताकीर्णा नानापल्लवशोभिता
॥ 57 ॥
श्लोक 59
अधिष्ठाताऽत्र सम्प्रोक्तः शरदृतुरनामयः ।
इषलक्ष्मीरूर्जलक्ष्मीर्द्वे भार्ये तस्य सम्मते
॥ 58 ॥
श्लोक 60
नानासिद्धा वसन्त्यत्र साङ्गनाः सपरिच्छदाः ।
पञ्चलोहमयादग्रे सप्तयोजनदैर्घ्यवान्
॥ 59 ॥
श्लोक 61
दीप्यमानो महाशृङ्गैर्वर्तते रौप्यसालकः ।
पारिजाताटवीमध्ये प्रसूनस्तबकान्विता
॥ 60 ॥
श्लोक 62
दशयोजनगन्धीनि कुसुमानि समन्ततः ।
मोदयन्ति गणान्सर्वान्ये देवीकर्मकारिणः
॥ 61 ॥
श्लोक 63
तत्राधिनाथः सम्प्रोक्तो हेमन्तर्तुर्महोज्ज्वलः ।
सगणः सायुधः सर्वान् रागिणो रञ्जयन्नपः
॥ 62 ॥
श्लोक 64
सहश्रीश्च सहस्यश्रीर्द्वे भार्ये तस्य सम्मते ।
वसन्ति तत्र सिद्धाश्च ये देवीव्रतकारिणः
॥ 63 ॥
श्लोक 65
रौप्यसालमयादग्रे सप्तयोजनदैर्घ्यवान् ।
सौवर्णसालः सम्प्रोक्तस्तप्तहाटककल्पितः
॥ 64 ॥
श्लोक 66
मध्ये कदम्बवाटी तु पुष्पपल्लवशोभिता ।
कदम्बमदिराधाराः प्रवर्तन्ते सहस्रशः
॥ 65 ॥
श्लोक 67
याभिर्निपीतपीताभिर्निजानन्दोऽनुभूयते ।
तत्राधिनाथः सम्प्रोक्तः शैशिरर्तुर्महोदयः
॥ 66 ॥
श्लोक 68
तपःश्रीश्च तपस्यश्रीर्द्वे भार्ये तस्य सम्मते ।
मोदमानः सहैताभ्यां वर्तते शिशिराकृतिः
॥ 67 ॥
श्लोक 69
नानाविलाससंयुक्तो नानागणसमावृतः ।
निवसन्ति महासिद्धा ये देवीदानकारिणः
॥ 68 ॥
श्लोक 70
नानाभोगसमुत्पन्नमहानन्दसमन्विताः ।
साङ्गनाः परिवारैस्तु सङ्घशः परिवारिताः
॥ 69 ॥
श्लोक 71
स्वर्णसालमयादग्रे मुनियोजनदैर्घ्यवान् ।
पुष्परागमयः सालः कुङ्कुमारुणविग्रहः
॥ 70 ॥
श्लोक 72
पुष्परागमयी भूमिर्वनान्युपवनानि च ।
रत्नवृक्षालवालाश्च पुष्परागमयाः स्मृताः
॥ 71 ॥
श्लोक 73
प्राकारो यस्य रत्नस्य तद्रत्नरचिता द्रुमाः ।
वनभूः पक्षिनश्चैव रत्नवर्णजलानि च
॥ 72 ॥
श्लोक 74
मण्डपा मण्डपस्तम्भाः सरान्सि कमलानि च ।
प्राकारे तत्र यद्यत्स्यात्तत्सर्वं तत्समं भवेत्
॥ 73 ॥
श्लोक 75
परिभाषेयमुद्दिष्टा रत्नसालादिषु प्रभो ।
तेजसा स्याल्लक्षगुणः पूर्वसालात्परो नृप
॥ 74 ॥
श्लोक 76
दिक्पाला निवसन्त्यत्र प्रतिब्रह्मान्डवर्तिनाम् ।
दिक्पालानां समष्ट्यात्मरूपाः स्फूर्जद्वरायुधाः
॥ 75 ॥
श्लोक 77
पूर्वाशायां समुत्तुङ्गशृङ्गा पूरमरावती ।
नानोपवनसंयुक्ता महेन्द्रस्तत्र राजते
॥ 76 ॥
श्लोक 78
स्वर्गशोभा च या स्वर्गे यावती स्यात्ततोऽधिका ।
समष्टिशतनेत्रस्य सहस्रगुणतः स्मृता
॥ 77 ॥
श्लोक 79
ऐरावतसमारूढो वज्रहस्तः प्रतापवान् ।
देवसेनापरिवृतो राजतेऽत्र शतक्रतुः
॥ 78 ॥
श्लोक 80
देवाङ्गनागणयुता शची तत्र विराजते ।
वह्निकोणे वह्निपुरी वह्निपूः सदृशी नृप
॥ 79 ॥
श्लोक 81
स्वाहास्वधासमायुक्तो वह्निस्तत्र विराजते ।
निजवाहनभूषाढ्यो निजदेवगणैर्वृतः
॥ 80 ॥
श्लोक 82
याम्याशायां यमपुरी तत्र दण्डधरो महान् ।
स्वभटैर्वेष्टितो राजन् चित्रगुप्तपुरोगमैः
॥ 81 ॥
श्लोक 83
निजशक्तियुतो भास्वत्तनयोऽस्ति यमो महान् ।
नैरृत्यां दिशि राक्षस्यां राक्षसैः परिवारितः
॥ 82 ॥
श्लोक 84
खड्गधारी स्फुरन्नास्ते निरृतिर्निजशक्तियुक् ।
वारुण्यां वरुणो राजा पाशधारी प्रतापवान्
॥ 83 ॥
श्लोक 85
महाझशसमारूढो वारुणीमधुविह्वलः ।
निजशक्तिसमायुक्तो निजयादोगणान्वितः
॥ 84 ॥
श्लोक 86
समास्ते वारुणे लोके वरुणानीरताकुलः ।
वायुकोणे वायुलोको वायुस्तत्राधितिष्ठति
॥ 85 ॥
श्लोक 87
वायुसाधनसंसिद्धयोगिभिः परिवारितः ।
ध्वजहस्तो विशालाक्षो मृगवाहनसंस्थितः
॥ 86 ॥
श्लोक 88
मरुद्गणैः परिवृतो निजशक्तिसमन्वितः ।
उत्तरस्यां दिशि महान्यक्षलोकोऽस्ति भूमिप
॥ 87 ॥
श्लोक 89
यक्षाधिराजस्तत्राऽऽस्ते वृद्धिऋद्ध्यादिशक्तिभिः ।
नवभिर्निधिभिर्युक्तस्तुन्दिलो धननायकः
॥ 88 ॥
श्लोक 90
मणिभद्रः पूर्णभद्रो मणिमान्मणिकन्धरः ।
मणिभूषो मणिस्रग्वी मणिकार्मुकधारकः
॥ 89 ॥
श्लोक 91
इत्यादियक्षसेनानीसहितो निजशक्तियुक् ।
ईशानकोणे सम्प्रोक्तो रुद्रलोको महत्तरः
॥ 90 ॥
श्लोक 92
अनर्घ्यरत्नखचितो यत्र रुद्रोऽधिदैवतम् ।
मन्युमान्दीप्तनयनो बद्धपृष्ठमहेषुधिः
॥ 91 ॥
श्लोक 93
स्फूर्जद्धनुर्वामहस्तोऽधिज्यधन्वभिरावृतः ।
स्वसमानैरसङ्ख्यातरुद्रैः शूलवरायुधैः
॥ 92 ॥
श्लोक 94
विकृतास्यैः करालास्यैर्वमद्वह्निभिरास्यतः ।
दशहस्तैः शतकरैः सहस्रभुजसंयुतैः
॥ 93 ॥
श्लोक 95
दशपादैर्दशग्रीवैस्त्रिनेत्रैरुग्रमूर्तिभिः ।
अन्तरिक्षचरा ये च ये च भूमिचराः स्मृताः
॥ 94 ॥
श्लोक 96
रुद्राध्याये स्मृता रुद्रास्तैः सर्वैश्च समावृतः ।
रुद्राणीकोटिसहितो भद्रकाल्यादिमातृभिः
॥ 95 ॥
श्लोक 97
नानाशक्तिसमाविष्टडामर्यादिगणावृतः ।
वीरभद्रादिसहितो रुद्रो राजन्विराजते
॥ 96 ॥
श्लोक 98
मुण्डमालाधरो नागवलयो नागकन्धरः ।
व्याघ्रचर्मपरीधानो गजचर्मोत्तरीयकः
॥ 97 ॥
श्लोक 99
चिताभस्माङ्गलिप्ताङ्गः प्रमथादिगणावृतः ।
निनदड्डमरुध्वानैर्बधिरीकृतदिम्मुखः
॥ 98 ॥
श्लोक 100
अट्टहासास्फोटशब्दैः सन्त्रासितनभस्तलः ।
भूतसङ्घसमाविष्टो भूतावासो महेश्वरः
॥ 99 ॥
श्लोक 101
ईशानदिक्पतिः सोऽयं नाम्ना चेशान एव च
॥ 100 ॥
श्लोक 102
इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे मणिद्वीपवर्णनं नाम दशमोऽध्यायः ॥
