Stotram - Sacred Scripture

Kartikeya Pragna Vivardhana Stotram

Kartikeya Pragna Vivardhana Stotram

Stotram
Unknown
6 Verses
110%

कार्तिकेय प्रज्ञ विवर्धन स्तोत्रम्

श्लोक 1

स्कन्द उवाच ।

योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः ।

स्कन्दः कुमारः सेनानीः स्वामी शङ्करसम्भवः

श्लोक 2

गाङ्गेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः ।

तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः

॥ 1 ॥

श्लोक 3

शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः ।

सनत्कुमारो भगवान् भोगमोक्षफलप्रदः

॥ 2 ॥

श्लोक 4

शरजन्मा गणाधीशपूर्वजो मुक्तिमार्गकृत् ।

सर्वागमप्रणेता च वाञ्छितार्थप्रदर्शनः

॥ 3 ॥

श्लोक 5

अष्टाविंशतिनामानि मदीयानीति यः पठेत् ।

प्रत्यूषे श्रद्धया युक्तो मूको वाचस्पतिर्भवेत्

॥ 4 ॥

श्लोक 6

महामन्त्रमयानीति मम नामानुकीर्तनम् ।

महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा

॥ 5 ॥

श्लोक 7

इति श्रीरुद्रयामले प्रज्ञाविवर्धनाख्यं श्रीमत्कार्तिकेयस्तोत्रम् ॥