Stotram - Sacred Scripture

Jagannatha Ashtakam

Jagannatha Ashtakam

Stotram
Unknown
8 Verses
110%

जगन्नाथाष्टकम्

श्लोक 1

कदाचित्-कालिन्दी तटविपिन सङ्गीतकरवो

मुदाभीरी नारीवदन कमलास्वादमधुपः ।

रमा शम्भु ब्रह्मामरपति गणेशार्चित पदो

जगन्नाथः स्वामी नयनपथगामी भवतु मे

श्लोक 2

भुजे सव्ये वेणुं शिरसि शिखिपिञ्छं कटितटे

दुकूलं नेत्रान्ते सहचरकटाक्षं विदधते ।

सदा श्रीमद्वृन्दावनवसतिलीलापरिचयो

जगन्नाथः स्वामी नयनपथगामी भवतु मे

॥ 1 ॥

श्लोक 3

महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे

वसन् प्रासादान्तस्सहज बलभद्रेण बलिना ।

सुभद्रा मध्यस्थस्सकलसुर सेवावसरदो

जगन्नाथः स्वामी नयनपथगामी भवतु मे

॥ 2 ॥

श्लोक 4

कृपा पारावारास्सजल जलद श्रेणिरुचिरो

रमावाणी रामस्फुरदमल पङ्कॆरुहमुखः ।

सुरेन्द्रैराराध्यः श्रुतिगणशिखा गीत चरितो

जगन्नाथः स्वामी नयनपथगामी भवतु मे

॥ 3 ॥

श्लोक 5

रथारूढो गच्छन् पथि मिलित भूदेवपटलैः

स्तुति प्रादुर्भावं प्रतिपदमुपाकर्ण्य सदयः ।

दयासिन्धुर्बन्धुस्सकल जगता सिन्धुसुतया

जगन्नाथः स्वामी नयनपथगामी भवतु मे

॥ 4 ॥

श्लोक 6

परब्रह्मापीडः कुवलय-दलोत्फुल्लनयनो

निवासी नीलाद्रौ निहित-चरणोऽनन्त-शिरसि ।

रसानन्दो राधा-सरस-वपुरालिङ्गन-सखो

जगन्नाथः स्वामी नयनपथगामी भवतु मे

॥ 5 ॥

श्लोक 7

न वै याचे राज्यं न च कनक माणिक्य विभवं

न याचेऽहं रम्यां निखिलजन-काम्यां वरवधूम् ।

सदा काले काले प्रमथ-पतिना गीतचरितो

जगन्नाथः स्वामी नयनपथगामी भवतु मे

॥ 6 ॥

श्लोक 8

हर त्वं संसारं द्रुततरमसारं सुरपते

हर त्वं पापानां विततिमपरां यादवपते ।

अहो दीनोऽनाथे निहितचरणो निश्चितमिदं

जगन्नाथः स्वामी नयनपथगामी भवतु मे

॥ 7 ॥

श्लोक 9

जगन्नाथाष्टकं पुण्यं यः पठेत् प्रयतः शुचिः ।

सर्वपाप विशुद्धात्मा विष्णुलोकं स गच्छति ॥

इति श्रीमद् शङ्कराचार्यविरचितं जगन्नाथाष्टकं सम्पूर्णं॥