Guru Graha Pancharatna Stotram
Guru Graha Pancharatna Stotram
Stotram
Unknown
5 Verses
110%
गुरु ग्रह पञ्चरत्न स्तोत्रम्
श्लोक 1
देवानाञ्च ऋषीणाञ्च गुरुकाञ्चन सन्निभम् ।
बुद्धि मन्तं त्रिलोकेशं तं नमामि बृहस्पतिम्
श्लोक 2
वराक्षमालां दण्डं च कमण्डलधरं विभुम् ।
पुष्यरागाङ्कितं पीतं वरदां भावयेत् गुरुम्
॥ 1 ॥
श्लोक 3
अभीष्टवरदां देवं सर्वज्ञं सुरपूजितम् ।
सर्वकार्यर्थ सिद्ध्यर्थं प्रणमामि बृहस्पतिं सदा
॥ 2 ॥
श्लोक 4
आङ्गीरसाब्दसञ्जात अङ्गीरस कुलोद्भवः ।
इन्द्रादिदेवो देवेशो देवताभीष्टदायिकः
॥ 3 ॥
श्लोक 5
ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ।
चतुर्भुज समन्वितं देवं तं गुरुं प्रणमाम्यहम्
॥ 4 ॥
