Stotram - Sacred Scripture

Ekatmata Stotram

Ekatmata Stotram

Stotram
Unknown
0 Verses
110%

एकात्मता स्तोत्रम्

ॐ सच्चिदानन्द रूपाय नमोस्तु परमात्मने ।

ज्योतिर्मय स्वरूपाय विश्वमाङ्गल्यमूर्तये ॥

प्रकृतिः पञ्च भूतानि ग्रहालोकाः स्वरा स्तधा ।

दिशः कालश्च सर्वेषां सदा कुर्वन्तु मङ्गलम्‌ ॥

रत्नाकरा धौतपदां हिमालय किरीटिनीम्‌ ।

ब्रह्मराजर्षि रत्नाढ्यां वन्दे भारत मातरम्‌ ॥

महेन्द्रो मलयः सह्यो देवतात्मा हिमालयः ।

ध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तधा ॥

गङ्गा सरस्वती सिन्धुर्‌ ब्रह्मपुत्रश्च गण्डकी ।

कावेरी यमुना रेवा कृष्णागोदा महानदी ॥

अयोध्या मधुरा माया काशीकाञ्ची अवन्तिका ।

वैशाली द्वारिका ध्येया पुरी तक्षशिला गया ॥

प्रयागः पाटली पुत्रं विजयानगरं महत्‌ ।

इन्द्रप्रस्धं सोमनाधः तधामृतसरः प्रियम्‌ ॥

चतुर्वेदाः पुराणानि सर्वोपनिषदस्तधा ।

रामायणं भारतं च गीता षड्दर्शनानि च ॥

जैनागमा स्त्रिपिटका गुरुग्रन्धः सतां गिरः ।

एषः ज्ञाननिधिः श्रेष्ठः हृदि सर्वदा ॥

अरुन्धत्यनसूय च सावित्री जानकी सती ।

द्रौपदी कण्णगी गार्गी मीरा दुर्गावती तधा ॥

लक्ष्मी रहल्या चॆन्नम्मा रुद्रमाम्बा सुविक्रमा ।

निवेदिता शारदा च प्रणम्याः मातृदेवताः ॥

श्रीरामो भरतः कृष्णो भीष्मो धर्म स्तधार्जुनः ।

मार्कण्डेया हरिश्चन्द्रः प्रह्लादो नारदो ध्रुवः ॥

हनुमान्‌ जनको व्यासो वशिष्ठश्च शुको बलिः ।

दधीचि विश्वकर्माणौ पृधु वाल्मीकि भार्गवाः ॥

भगीरधश्चैकलव्यो मनुर्धन्वन्तरिस्तधा ।

शिबिश्च रन्तिदेवश्च पुराणोद्गीत कीर्तयः ॥

बुद्धोजिनेन्द्रा गोरक्षः तिरुवल्लुवरस्तधा ।

नायन्मारालवाराश्च कम्बश्च बसवेश्वरः ॥

देवलो रविदासश्च कबीरो गुरुनानकः ।

नरसिस्तुलसीदासो दशमेशो दृढव्रतः ॥

श्रीमत्‌ शङ्करदेवश्च बन्धू सायणमाधवौ ।

ज्ञानेश्वर स्तुकारामो रामदासः पुरन्दरः ॥

विरजा सहजानन्दो रामासन्द्स्तधा महान्‌ ।

वितरस्तु सदैवैते दैवीं सद्गुण सम्पदम्‌ ॥

भरतर्षिः कालिदासः श्रीभोजो जकणस्तधा ।

सूरदासस्त्यागराजो रसखानश्च सत्कविः ॥

रविवर्मा भारतखण्डे भाग्यचन्द्रः स भूपतिः ।

कलावन्तश्च विख्याताः स्मरणीय निरन्तरम्‌ ॥

अगस्त्यः कम्बुकौण्डिन्यौ राजेन्द्रश्चोलवंशजः ।

अशोकः पुष्यमित्रश्च खारवेलाः सुनीतिमान्‌ ॥

चाणक्य चन्द्रगुप्तौ च विक्रमः शालिवाहनः ।

समुद्र गुप्तः श्री हर्षःशैलेन्द्रो बप्परावलः ॥

लाचित्‌ भास्करवर्माच यशोधर्मा च हूणजित्‌ ।

श्रीकृष्णदेवरायश्च ललितादित्य उद्बलः ॥

मुसुनूरि नायका तौ प्रतापः शिवभूपतिः ।

रणजित्‌ सिंह इत्येते वीरा विख्यात विक्रमाः ॥

वैज्ञानिकाश्च कपिलः कणादः शुश्रत स्तधा ।

चरको भास्कराचार्यो वराहमिहरः सुधीः ॥

नागार्जुनो भरद्वाजः आर्यभट्टो वसुर्भुधः ।

ध्येयो वेङ्कटरामश्च विज्ञा रामानुजादयः ॥

रामकृष्णो दयानन्दो रवीन्द्रो राममोहनः ।

रामतीर्धो रविन्दश्च विवेकानन्द उड्यशाः ॥

दादाभायी गोपबन्धुः तिलको गान्धिरादृताः ।

रमणो मालवीयश्च श्री सुब्रह्मण्य भारती ॥

सुभाषः प्रणवानन्दः क्रान्तिवीरो विनायकः ।

ठक्करो भीमरावश्च पुलेनारायणो गुरुः ॥

सङ्घशक्तिः प्रणेतारौ केशवो माधवश्तधा ।

स्मरणीया सदैवैते नवचैतन्यदायकाः ॥

अनुक्ता ये भक्ताः प्रभुचरण संसक्त हृदयाः ।

अविज्ञाता वीराः अधिसमरमुद्ध्वस्तरिपवः ॥

समाजोद्धर्तारः सुहितकरविज्ञान निपुणाः ।

नम स्तेभ्यो भूयात्‌ सकल सुजनेभ्यः प्रतिदिनम्‌ ॥

इदमेकात्मतास्तोत्रं श्रद्धया यः सदा पठेत्‌ ।

स राष्ट्र धर्म निष्टावान्‌ अखण्डं भारतं स्मरेत्‌ ॥

About This Stotram

Overview

The Ekatmata Stotram is a Sanskrit hymn that affirms the unity of existence — the oneness of Paramatma (the supreme self, described as Sat-Chit-Ananda) with all creation, including the natural world, the five elements, celestial bodies, and the land of Bharat. The hymn invokes the well-being of each of these dimensions in turn and includes a verse honoring Bharat Mata (Mother India), giving the text both a philosophical and a cultural-national dimension. It belongs to a modern Sanskrit devotional compilation.

What are the benefits of chanting Ekatmata Stotram?

  • Cultivation of a sense of unity and interconnectedness
  • Invocation of universal well-being and auspiciousness
  • Fostering devotion to India as a sacred land
  • Meditation on the relationship between the individual soul and the supreme self

When is the best time to recite this?

The Ekatmata Stotram is suited to morning or evening recitation. It is particularly appropriate on national occasions, festivals, and during events that emphasize collective identity or universal well-being.

What is the historical and traditional background?

The inclusion of "Bharat Mata" as a devotional subject indicates that the Ekatmata Stotram was composed during or after the Indian independence movement (19th–20th century CE), when devotional hymns were adapted to express both spiritual and national consciousness. The text draws on Advaita Vedanta concepts (Paramatma, Sat-Chit-Ananda) while extending them to encompass the natural world and the nation. The author is unknown. The stotram circulates in Sanskrit collections that blend Vedic philosophical vocabulary with modern devotional sentiments.

Available scripts

This text is available in 14 scripts: devanagari, tamil, telugu, kannada, malayalam, gujarati, bengali, iast, gurmukhi, oriya, assamese, sinhala, itrans, hk. Use the script selector above to switch between them.

Related Texts

  • Vishnu Sahasranama — the thousand names of Vishnu from the Mahabharata, the most widely recited Vaishnava sahasranama invoking the supreme being
  • Purusha Suktam — a Vedic hymn describing the cosmos as a single divine body, sharing the Ekatmata Stotram's theme of unified existence