Stotram - Sacred Scripture

Durga Pancha Ratnam

Durga Pancha Ratnam

Stotram
Durga
5 Verses
110%

दुर्गा पञ्च रत्नम्

श्लोक 1

ते ध्यानयोगानुगता अपश्यन्

त्वामेव देवीं स्वगुणैर्निगूढाम् ।

त्वमेव शक्तिः परमेश्वरस्य

मां पाहि सर्वेश्वरि मोक्षदात्रि

श्लोक 2

देवात्मशक्तिः श्रुतिवाक्यगीता

महर्षिलोकस्य पुरः प्रसन्ना ।

गुहा परं व्योम सतः प्रतिष्ठा

मां पाहि सर्वेश्वरि मोक्षदात्रि

॥ 1 ॥

श्लोक 3

परास्य शक्तिः विविधैव श्रूयसे

श्वेताश्ववाक्योदितदेवि दुर्गे ।

स्वाभाविकी ज्ञानबलक्रिया ते

मां पाहि सर्वेश्वरि मोक्षदात्रि

॥ 2 ॥

श्लोक 4

देवात्मशब्देन शिवात्मभूता

यत्कूर्मवायव्यवचोविवृत्या

त्वं पाशविच्छेदकरी प्रसिद्धा

मां पाहि सर्वेश्वरि मोक्षदात्रि

॥ 3 ॥

श्लोक 5

त्वं ब्रह्मपुच्छा विविधा मयूरी

ब्रह्मप्रतिष्ठास्युपदिष्टगीता ।

ज्ञानस्वरूपात्मतयाखिलानां

मां पाहि सर्वेश्वरि मोक्षदात्रि

॥ 4 ॥

श्लोक 6

इति परमपूज्य श्री चन्द्रशेखरेन्द्र सरस्वती स्वामि कृतं दुर्गा पञ्चरत्नं सम्पूर्णम् ।

दुर्गा पञ्च रत्नम् | (Durga Pancha Ratnam) Lyrics | Vedic Tithi