Stotram - Sacred Scripture

Damodara Ashtakam

Damodara Ashtakam

Stotram
Unknown
8 Verses
110%

दामोदर अष्टकं

श्लोक 1

नमामीश्वरं सच्चिदानन्दरूपं

लसत्कुण्डलं गोकुले भ्राजमानम् ।

यशोदाभियोलूखलाद्धावमानं

परामृष्टमत्यन्ततो द्रुत्य गोप्या

श्लोक 2

रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तं

कराम्भोजयुग्मेन सातङ्कनेत्रम् ।

मुहुः श्वासकम्पत्रिरेखाङ्ककण्ठ-

स्थितग्रैव-दामोदरं भक्तिबद्धम्

॥ 1 ॥

श्लोक 3

इतीदृक् स्वलीलाभिरानन्दकुण्डे

स्वघोषं निमज्जन्तमाख्यापयन्तम् ।

तदीयेषिताज्ञेषु भक्तैर्जितत्वं

पुनः प्रेमतस्तं शतावृत्ति वन्दे

॥ 2 ॥

श्लोक 4

वरं देव मोक्षं न मोक्षावधिं वा

न चान्यं वृणेऽहं वरेषादपीह ।

इदं ते वपुर्नाथ गोपालबालं

सदा मे मनस्याविरास्तां किमन्यैः

॥ 3 ॥

श्लोक 5

इदं ते मुखाम्भोजमत्यन्तनीलैर्-

वृतं कुन्तलैः स्निग्ध-रक्तैश्च गोप्या ।

मुहुश्चुम्बितं बिम्बरक्तधरं मे

मनस्याविरास्तां अलं लक्षलाभैः

॥ 4 ॥

श्लोक 6

नमो देव दामोदरानन्त विष्णो

प्रसीद प्रभो दुःखजालाब्धिमग्नम् ।

कृपादृष्टिवृष्ट्यातिदीनं बतानु

गृहाणेश मां अज्ञमेध्यक्षिदृश्यः

॥ 5 ॥

श्लोक 7

कुबेरात्मजौ बद्धमूर्त्यैव यद्वत्

त्वया मोचितौ भक्तिभाजौ कृतौ च ।

तथा प्रेमभक्तिं स्वकं मे प्रयच्छ

न मोक्षे ग्रहो मेऽस्ति दामोदरेह

॥ 6 ॥

श्लोक 8

नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्ने

त्वदीयोदरायाथ विश्वस्य धाम्ने ।

नमो राधिकायै त्वदीयप्रियायै

नमोऽनन्तलीलाय देवाय तुभ्यम्

॥ 7 ॥

श्लोक 9

इति श्रीमद्पद्मपुराणे श्री दामोदराष्टाकं सम्पूर्णम् ॥

दामोदर अष्टकं | (Damodara Ashtakam) Lyrics | Vedic Tithi