Kavacham - Sacred Scripture

Bruhaspati Kavacham (Guru Kavacham)

Bruhaspati Kavacham (Guru Kavacham)

Kavacham
Unknown
5 Verses
110%

बृहस्पति कवचम् (गुरु कवचम्)

श्लोक 1

अस्य श्रीबृहस्पति कवचमहा मन्त्रस्य, ईश्वर ऋषिः,

अनुष्टुप् छन्दः, बृहस्पतिर्देवता,

गं बीजं, श्रीं शक्तिः, क्लीं कीलकम्,

बृहस्पति प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥

ध्यानम्

अभीष्टफलदं वन्दे सर्वज्ञं सुरपूजितम् ।

अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ॥

अथ बृहस्पति कवचम्

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।

कर्णौ सुरगुरुः पातु नेत्रे मेभीष्टदायकः

श्लोक 2

जिह्वां पातु सुराचार्यः नासं मे वेदपारगः ।

मुखं मे पातु सर्वज्ञः कण्ठं मे देवतागुरुः

॥ 1 ॥

श्लोक 3

भुजा वङ्गीरसः पातु करौ पातु शुभप्रदः ।

स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः

॥ 2 ॥

श्लोक 4

नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः ।

कटिं पातु जगद्वन्द्यः ऊरू मे पातु वाक्पतिः

॥ 3 ॥

श्लोक 5

जानुजङ्घे सुराचार्यः पादौ विश्वात्मकः सदा ।

अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः

॥ 4 ॥

श्लोक 6

फलशृतिः

इत्येतत्कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः ।

सर्वान् कामानवाप्नोति सर्वत्र विजयी भवेत् ॥

॥ इति श्री बृहस्पति कवचम् ॥