Stotram - Sacred Scripture

Bala Mukundashtakam

Bala Mukundashtakam

Stotram
Unknown
8 Verses
110%

बाल मुकुन्दाष्टकम्

श्लोक 1

करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।

वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि

श्लोक 2

संहृत्य लोकान्वटपत्रमध्ये शयानमाद्यन्तविहीनरूपम् ।

सर्वेश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि

॥ 1 ॥

श्लोक 3

इन्दीवरश्यामलकोमलाङ्गं इन्द्रादिदेवार्चितपादपद्मम् ।

सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि

॥ 2 ॥

श्लोक 4

लम्बालकं लम्बितहारयष्टिं शृङ्गारलीलाङ्कितदन्तपङ्क्तिम् ।

बिम्बाधरं चारुविशालनेत्रं बालं मुकुन्दं मनसा स्मरामि

॥ 3 ॥

श्लोक 5

शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम् ।

भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि

॥ 4 ॥

श्लोक 6

कलिन्दजान्तस्थितकालियस्य फणाग्ररङ्गेनटनप्रियन्तम् ।

तत्पुच्छहस्तं शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि

॥ 5 ॥

श्लोक 7

उलूखले बद्धमुदारशौर्यं उत्तुङ्गयुग्मार्जुन भङ्गलीलम् ।

उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुन्दं मनसा स्मरामि

॥ 6 ॥

श्लोक 8

आलोक्य मातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षम् ।

सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि

॥ 7 ॥

श्लोक 9