Ashtaadasa Shaktipeetha Stotram
Ashtaadasa Shaktipeetha Stotram
Stotram
Unknown
6 Verses
110%
अष्टादश शक्तिपीठ स्तोत्रम्
श्लोक 1
लङ्कायां शाङ्करीदेवी कामाक्षी काञ्चिकापुरे ।
प्रद्युम्ने शृङ्खलादेवी चामुण्डी क्रौञ्चपट्टणे
श्लोक 2
अलम्पुरे जोगुलाम्बा श्रीशैले भ्रमराम्बिका ।
कॊल्हापुरे महालक्ष्मी मुहुर्ये एकवीरा
॥ 1 ॥
श्लोक 3
उज्जयिन्यां महाकाली पीठिकायां पुरुहूतिका ।
ओढ्यायां गिरिजादेवी माणिक्या दक्षवाटिके
॥ 2 ॥
श्लोक 4
हरिक्षेत्रे कामरूपी प्रयागे माधवेश्वरी ।
ज्वालायां वैष्णवीदेवी गया माङ्गल्यगौरिका
॥ 3 ॥
श्लोक 5
वारणाश्यां विशालाक्षी काश्मीरेतु सरस्वती ।
अष्टादश सुपीठानि योगिनामपि दुर्लभम्
॥ 4 ॥
श्लोक 6
सायङ्काले पठेन्नित्यं सर्वशत्रुविनाशनम् ।
सर्वरोगहरं दिव्यं सर्वसम्पत्करं शुभम्
॥ 5 ॥
